Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६६
चरक-संहिता। [ अर्थेदशमहामूलीपः मानगुरूणामुपचयो भवत्यपचयो लघनामेवमितरेषामिति । एष भावस्वभावो नित्यः, स्वस्वलक्षणञ्च द्रव्याणां पृथिव्यादीनाम्। सन्ति तु द्रव्याणि गुणाश्च नित्यानित्याः।
हासः लघूनां गुरुणा हास इति विशेषस्य स्वभावः। एष भावस्वभावो नित्यः, न हि सामान्येन समानां हासो न विशेषेणासमानां द्धिः। एव सव्वत्र। स्खलक्षणञ्च पृथिव्यादिद्रव्याणां खरद्रवोष्णचलखाप्रतिघातलक्षणानि क्रमेण पृथिव्यादीनां नित्यानि । न हि द्रवोष्णचलाप्रतिघातलक्षणा पृथिवी कदाच स्यादवलक्षणाश्चापोऽनुप्णलक्षणं तेजोऽचललक्षणो वायुः प्रतिघातलक्षण आकाशः स्यादिति ।
तहि किं सर्च नित्यं नास्तानित्यमिति अत आह–सन्तीत्यादि । द्रव्याणि नित्यानि चानित्यानि च सन्ति। पृथिव्यादिद्रव्यकार्याणि द्रव्याणि हि अनित्यानि पृथिव्यादीनि च नित्यानि। गुणाश्च नित्यानित्याः । पृथिव्यादीनां ये गुणाः सामान्यभूताः गन्धादयस्ते नित्याः, कार्यद्रव्याणां पार्थिवादीनां शरीरेन्द्रियविषयसंज्ञानां कार्यभूताः पूतिवित्रादयो गन्धादयोऽनित्या विस्रादिगन्धा मधुरादिरसपीतादिरूपशीतादिस्पर्शोदात्तादिशब्दा अभूतोत्पन्नाः पृथिव्यादीनां कारणभूतगन्धादिजाः। अपूर्चाः। न हि पूच्चभूताः तिरोभूता वर्तन्ते पुनश्चोत्पद्यन्ते। तस्मादनित्याः।
पूर्वोक्त घटयति गुरुभिरित्यादिना एवमेवेतरेषामित्यन्तेन ; एवमेवेतरेपामिति लघुभिरभ्यस्यमानैः लघूनामुपचयो भवति, अपचयो गुरूणामित्यादि द्रष्टव्यम् ; एप इत्येवंप्रकारभावस्वभावो नित्य इति नैष सामान्यविशेषाभ्यां वृद्धिहासरूपो भावस्वभावः कदाचिदन्यथा भवतीत्यर्थः । न केवलमयं भावस्वभावो नित्यः, किं तर्हि भन्योऽपीत्याह-स्वलक्षणन्चेत्यादि। स्वलक्षणं पृथिव्यादीनां खरद्वत्वादि, कथं पृथिव्यादिस्वलक्षणं नित्यमित्याह-सन्ति स्वित्यादि। द्रव्याणि यस्मात् सर्वदा सन्ति, गुणाश्च नित्याः सर्वदा, चकारात् द्रव्याणि चानित्यानि मान्त ; तत्राकाशादि द्रव्यं नित्यं, पृथिव्यादिकञ्चानित्यम् ; एवंगुणा आकाशपरिमाणादयो नित्याः, अनित्याश्च कार्यगुणा रसादयः, अनित्या अपि च स्वजातीयापरापरसन्तानन्यायेन सर्वदा तिष्ठन्तीति युक्तम् ; अनित्यानामपि सन्ताननित्यत्वमिति भावः। अत्र भावस्वभावनित्यत्वेन हेतुना भावस्वभावस्य व्याधिजनकस्य तथा व्याधिशमकस्य नित्यत्वेन तत्प्रतिपादकस्यायुर्वेदस्य नित्यत्वमुक्त भवतीति मन्तव्यम्।
For Private and Personal Use Only

Page Navigation
1 ... 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204