Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५८
चरक-संहिता। अर्थदशमहामूलीयः ___ तत्रायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि केवलेनोपदेच्यन्ते तन्त्रंण । तत्रायुरुक्तं स्वलक्षणतो यथा यदिहेव पूर्वाध्याये। यच्च सुखादितस्तत्र शारीरमानसाभ्यां रोगाभ्यामनभिद् तस्य विशेषेण यौवनवतः समर्थानुगतबलवीर्य-यशः पौरुषपराक्रमस्य ज्ञानविज्ञानेन्द्रियार्थबलसमुदाये वर्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्टविचारिणः सुखमायुरुच्यते। असुखमतो विपर्यायेण । हितैषिणः पुनभूतानां परस्वादुपरतस्य सत्यवादिनः सामपरस्य हेतोर्वायुष्याण्यनायुष्याणि द्रव्यादीनि वेदयति, अतोऽपि कारणादायुव्वंद इति संज्ञा। एतेनायुव्वेदस्य प्रयोजनमुक्तमायुपो हिताहितम् ॥९॥ ___ गङ्गाधरः--कानि तानीह वेदयतीति ? अत आह-आयुष्याण्यनायुष्याणि द्रव्यादीनि केवलेन कृत्स्नेन तन्त्रेणोपदेश्यन्ते। तत्रायुः स्वलक्षणतः कुत्र प्रोक्तमिति ? अत आह-तत्रेत्यादि। स्खलक्षण आयुरुक्तं पूर्वाध्याये यथा तथैवेह चेतनानुत्तिरित्यादिना । सुखासुखतो हिताहिततश्चेहोच्यते। तत्र शारीरमानसाभ्यां रोगाभ्यामनभिद्रतस्य अभिद्रवाभाववतः, अनभिभूतस्याभिभवाभाववतश्च। विशेषेण वाल्यवार्द्धक्याभ्यां विशेषण यौवनवतः समर्थानुगतवलादिकस्य ज्ञानादिसमुदाये वर्तमानस्य परमद्धिरुचिराप्रपभोगयुक्तस्य समृद्धसवारम्भस्य–समृद्धिमन्तः सर्चकम्मेणामारम्भा यस्य । यथेष्टविचारिणः स्वस्वाभिलाषानुरूपविशेषचरणशीलस्य जनस्य सुखमायुरुच्यते। असुखमायुरतो विपय्येयेणाभिधीयते।
अथ हितायुयस्य तदाह-हितैषिण इत्यादि। भूतानां हितैषिणः स्वयमेवोदाहरिष्यति । आयुष्यानायुष्ये 'आयुःशब्देन वक्तव्ये, तेन आयुष्यानायुष्यवेदपक्षे गौणी निरुक्तिः 'आयुर्वेदः' इति । अत एवात्र 'अपि'शब्दः- 'अतोऽप्यायुर्वेदः' इति ; अनायुष्यमपि च ज्ञातमसेव्यत्वेनाव्यवह्रियमाणमायुःकारणं भवत्येव, तेनानायुष्यमप्यायुःकारणतयायुःशब्दवाच्यं, नात्रापराधः। इहैवेति तत्रायुः 'चेतनानुवृत्तिः' इत्यादिना। तत्र 'शारीर'-इत्यादिना सुखमायुरभिधत्ते ; पौरुषमुत्कृष्ट कर्म ; ज्ञानविज्ञानेन्द्रियैर्बलशब्दः, इन्द्रियार्थेन च समुदायशब्दः सम्बध्यते ; किंवा ज्ञानादिभिः सबैरेव समुदायशब्दः सम्बध्यते। किंवा ज्ञानादिभिः सव्वैरेव 'बलसमुदाये' इति भोज्यम्, बलस्य समुदायो बलसमुदायः ; परमात्यर्थद्धिर्यस्य स परमर्द्धिः ;
For Private and Personal Use Only

Page Navigation
1 ... 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204