Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1174
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०श अध्यायः सूत्रस्थानम् । हिताहितानाश्चोपदेश आयुर्वेद इति। तच्च स्वभावतः स्वरूपतः सम्यक् प्रसिद्धम् । शक्तावशेपे महानिर्वाणे पुनः सर्गे तेजोऽबन्नानि सृष्ट्वा गायत्री भूखा सा शक्तिब्रह्म स्वयमेव परमात्मानं परमव्योमरूपं व्योमकेशं शिवं कृता तेनैकीभूय प्रथमं विद्या तदाश्रयब्रह्मपुरुषसदाशिवं परमविद्या शास्त्रं वेदं तथा पुनरपरविद्याश्रयांश्चतुरो वेदान् साङ्गानृग्वेदादीन् यदा स्रक्ष्यति तदापि खल्वेतल्लक्षणखेनैव स्रक्ष्यतीति स्वभावसंसिद्धलक्षणवादादिमत्त्वेऽप्यनादिखात शाश्वतः शश्वद्वत्तैत इति नित्यतः। न हि कदाप्यन्यादृशलक्षणखेन विद्याविद्या. शास्त्रमयान् वेदादीन स्रक्ष्यति । यथा देवनरतिय्येगयोनिजान यथास्खलक्षणवेनैव स्रक्ष्यति नान्यादृशलक्षणवेन। न हि कैरपि दृश्यते नरलक्षणो गौगोलक्षणो वा नरः। यथा च तत्तदयथावकारणादपि यथावलक्षणवेन देवनरतिय्यंगयोनिजानां पुनःपुनरुत्पत्तावपि च नश्वरत्वेऽप्यनादिलात् शाश्वतत्वं तथा गायत्रीविशिष्टत्रिपातपुरुषादेव चतुष्पादब्रह्मणः पुनः पुनविद्याविद्याशास्त्रमयवेदानां साङ्गेतिहासपुराणानां प्रादुर्भावेण नश्वरखेऽपि चानादिखाच्छाश्वतत्वमिति। अथ कस्मादेवं नियमो यतोऽन्यादृशलक्षणवेन न कदाप्येषां सर्गः स्यादिति ? अत उच्यते-भावस्वभावनित्यखादिति । भावा ये भवन्ति सन्ति च, तेषां स्वभावः स्वरूपं नित्यं स्वीयरूपस्य नित्यत्वात् । स्वीयं लक्षणं तेन संसिद्धम् । न च साध्याविशिष्टं स्वं हि रूपं न लक्षणं समुदायो हि रूपं प्रत्येकन्तु लक्षणम् । यो भावो यदानुपूर्तीकसमुदायस्तदेव तस्य रूपमेकावयवादिनानाधिक्ये तु स न सम्पूर्णलक्षणः स्थादधिकलक्षणो वा स्यात् । तच्च स्वं रूपं स्वो धम्मः। यो यतः कारणाद् यथा यत्प्रभवो यदगुण इत्येवमादि सर्वत्र वोच्यते तथा स्वभावो नित्यः। नियतिकृतनियमानियत एवेति। नियतिस्तु परमात्मनो यदृच्छाशक्तिकृता। परमात्मनो ह्य चिन्त्यानन्ताः शक्तयस्तासु प्रधानास्तिस्रः शक्तयो ज्ञानशक्तियदृच्छाशक्तिः क्रियाशक्तिश्चेत्युक्तम् श्वेताश्वतरोपनिषदि-न तस्य कार्य करणश्च विद्यते न तत्समश्चाप्यधिकश्च दृश्यते। परास्य शक्तिर्विविधैव श्रूयते स्वाभा. विकी ज्ञानवलक्रिया च॥ इति। तद्याख्यातं वायवीये-ज्ञानक्रियाचिकीर्षाभिस्तिमृभिः स्वीयशक्तिभिः । शक्तिमानीश्वरः शश्वद्विश्वं व्याप्यावतिष्ठते। ज्ञानशक्तिस्तु कार्य यत् कारणं करणं तथा। प्रयोजनश्च तत्त्वेन बुद्धिरूपाध्यवस्यति । इदमित्थमिदं नेत्थं भवेदित्येवमानिका। इच्छाशक्तिर्महेशस्य व्यवहारनित्यायुर्वेदार्थाभिधायकस्यायुर्वेदस्य पारस्पटर्ययोगान्नित्यत्वं साध्यते ; तत्रायुषरतावदायु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204