Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1160
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०श अध्यायः सूत्रस्थानम् । तस्योपघातान्मू यान भेदान्मरणमृच्छति। यद्धि तत्स्पर्शविज्ञानं धारि तत् तत्र संस्थितम् ॥ काष्ठानि तेपायागारकणिका, तत्तद्वक्र काष्ठानां मूलानि यस्यामेकस्यां गृहमध्यस्थकाष्ठमय्यां कणिकायां संनिवद्धानि प्रतिष्ठितानि वत्तेन्ते तथा पड़ङ्गाङ्गादीनि हृदये प्रतिष्ठितानि प्रति लक्षीकृत्य वर्तन्ते। तेन वाह्यानि चिन्त्यानि चिन्ताहत्वेन हृदि वर्तन्ते न तु स्वरूपमूर्तया। यतो नाधाराधार्यभावेणैषामाश्रयो भवति । कुतस्तहि प्राणायतनमिति ? अत उच्यते--तस्येत्यादि । तस्य हृदयस्योपघातात् पुरुपो मूर्छायानृच्छति, तस्य भेदात् तु मरणमृच्छतीत्यत उक्त प्राणायतनं हृदयमिति। कस्मान्मरणमृच्छति ? तद्भेदादित्यत उच्यतेयद्धीत्यादि। हि यस्मात् तत् स्पशे विज्ञानं तस्य हृदयस्य स्पशौं विज्ञानं यस्य धारिणो जीवितस्य तत्तत् स्पर्शविज्ञानं यद्धारि यज्जीवितमायुस्तदायुः शरीरेन्द्रियसत्त्वात्मसंयोगस्तत्र हृदये संस्थितं तस्मात् तदुपघातान्मच्छ.यांस्तद्भदान्मरणमृच्छतीति । गोपानसीनामित्यादि। गोपानस्यो गृहाच्छादनाधारकाष्टानि ; आगारकर्णिका गृहाच्छादनमध्ये गृहाच्छादनकाष्टनिवन्धनी ; लोके आड़कमित्युच्यते ; अर्थचिन्तकैरिति हृदयचिन्तकैः ; तेन, पड़गादीनां हृदयाश्रितत्वं नाधाराधेयभावेन, किं तर्हि, तदन्वयव्यतिरेकानुविधायित्वेनेति दर्शितं -भवति ; हृदयाश्रितत्वं हृदये प्रकृतिस्थे षडङ्गादिभावानां प्रकृतिस्थत्वं हृदयोपघाते तदुपधात इत्यर्थः । यद्यपि च आत्मविज्ञानमनसां हृदयाश्रितत्वमाधाराधेयभावादपि कछसध्या वक्त पार्यते, तथापि सर्वव्यापकत्वान्नोपादेयमाधाराधेयत्वम् ; नैवम्, आत्मा यश्च संसारी भोगायतनत्वेनाभिप्रेतः, स च हृदयप्रदेश एव सुखदुःखादुपपद्यत इत्यनुभवसिद्धम्, तेन हृदयाश्रित इवात्मा, तथापि प्रायेण हृद्य व तिष्ठति, यतः उपरतक्रियं मनो हृद्य व तिष्ठति, तथा अध्ययने योगे च हृदिस्थमेव मनो भवति ; यदप्युक्तम्-'आत्मस्थे मनसि स्थिरे' इति, तदप्यात्मस्थमनसो हृदयस्थत्वमेव ; एवं ज्ञानसुखदुःखानि च हृदयस्थान्येव लक्ष्यन्ते, तथा चातिचिन्तनात् तथा दुःखावेशत्वाद् हृदयमेव पीड्यते, नान्य दङ्गम् ; अलमात्मना व्यापकेनाश्रयाश्रयिभावेन व्युत्पादितेन, यश्चात्मा संसारी हृदयाश्रितो भवति तस्यैव हृदयनाशानाश इति भावः। ___ कथमेतद् भवतीत्याह-यद्रीत्यादि। स्पर्शी विज्ञायतेऽनेनेति स्पर्श वा विजानातीति स्पर्शविज्ञानम्, तस्यैव विशेषणं धारीति, धारि तु शरीरेन्द्रियसत्त्वात्मसंयोगः, यदुक्तम्"शरीरेन्द्रियसत्वात्म-संयोगो धारि जीवितम्” इति ; एतेन यः शरीरादिसंयोगः स्पर्शनेन विजानाति सर्व ज्ञेयम्, यश्चायं शरीरधारणाद्धारीत्युच्यते, स हृदि स्थितः ; तेन तदुपघातान्मूर्छा तथा तद्भदान्मरणं चैतन्याननुवृत्तिलक्षणमुपपन्नम् ; स्पर्शी हि द्विविधः-ऐन्द्रियको मानसश्च, एतत् स्पर्शद्वयं विना च न किञ्चित् ज्ञानञ्च भवति, यदुत्तम्-'यश्चैवैन्द्रियकः स्पर्शः स्पर्शी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204