________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः
सूत्रस्थानम् । तस्योपघातान्मू यान भेदान्मरणमृच्छति।
यद्धि तत्स्पर्शविज्ञानं धारि तत् तत्र संस्थितम् ॥ काष्ठानि तेपायागारकणिका, तत्तद्वक्र काष्ठानां मूलानि यस्यामेकस्यां गृहमध्यस्थकाष्ठमय्यां कणिकायां संनिवद्धानि प्रतिष्ठितानि वत्तेन्ते तथा पड़ङ्गाङ्गादीनि हृदये प्रतिष्ठितानि प्रति लक्षीकृत्य वर्तन्ते। तेन वाह्यानि चिन्त्यानि चिन्ताहत्वेन हृदि वर्तन्ते न तु स्वरूपमूर्तया। यतो नाधाराधार्यभावेणैषामाश्रयो भवति । कुतस्तहि प्राणायतनमिति ? अत उच्यते--तस्येत्यादि । तस्य हृदयस्योपघातात् पुरुपो मूर्छायानृच्छति, तस्य भेदात् तु मरणमृच्छतीत्यत उक्त प्राणायतनं हृदयमिति। कस्मान्मरणमृच्छति ? तद्भेदादित्यत उच्यतेयद्धीत्यादि। हि यस्मात् तत् स्पशे विज्ञानं तस्य हृदयस्य स्पशौं विज्ञानं यस्य धारिणो जीवितस्य तत्तत् स्पर्शविज्ञानं यद्धारि यज्जीवितमायुस्तदायुः शरीरेन्द्रियसत्त्वात्मसंयोगस्तत्र हृदये संस्थितं तस्मात् तदुपघातान्मच्छ.यांस्तद्भदान्मरणमृच्छतीति । गोपानसीनामित्यादि। गोपानस्यो गृहाच्छादनाधारकाष्टानि ; आगारकर्णिका गृहाच्छादनमध्ये गृहाच्छादनकाष्टनिवन्धनी ; लोके आड़कमित्युच्यते ; अर्थचिन्तकैरिति हृदयचिन्तकैः ; तेन, पड़गादीनां हृदयाश्रितत्वं नाधाराधेयभावेन, किं तर्हि, तदन्वयव्यतिरेकानुविधायित्वेनेति दर्शितं -भवति ; हृदयाश्रितत्वं हृदये प्रकृतिस्थे षडङ्गादिभावानां प्रकृतिस्थत्वं हृदयोपघाते तदुपधात इत्यर्थः । यद्यपि च आत्मविज्ञानमनसां हृदयाश्रितत्वमाधाराधेयभावादपि कछसध्या वक्त पार्यते, तथापि सर्वव्यापकत्वान्नोपादेयमाधाराधेयत्वम् ; नैवम्, आत्मा यश्च संसारी भोगायतनत्वेनाभिप्रेतः, स च हृदयप्रदेश एव सुखदुःखादुपपद्यत इत्यनुभवसिद्धम्, तेन हृदयाश्रित इवात्मा, तथापि प्रायेण हृद्य व तिष्ठति, यतः उपरतक्रियं मनो हृद्य व तिष्ठति, तथा अध्ययने योगे च हृदिस्थमेव मनो भवति ; यदप्युक्तम्-'आत्मस्थे मनसि स्थिरे' इति, तदप्यात्मस्थमनसो हृदयस्थत्वमेव ; एवं ज्ञानसुखदुःखानि च हृदयस्थान्येव लक्ष्यन्ते, तथा चातिचिन्तनात् तथा दुःखावेशत्वाद् हृदयमेव पीड्यते, नान्य दङ्गम् ; अलमात्मना व्यापकेनाश्रयाश्रयिभावेन व्युत्पादितेन, यश्चात्मा संसारी हृदयाश्रितो भवति तस्यैव हृदयनाशानाश इति भावः। ___ कथमेतद् भवतीत्याह-यद्रीत्यादि। स्पर्शी विज्ञायतेऽनेनेति स्पर्श वा विजानातीति स्पर्शविज्ञानम्, तस्यैव विशेषणं धारीति, धारि तु शरीरेन्द्रियसत्त्वात्मसंयोगः, यदुक्तम्"शरीरेन्द्रियसत्वात्म-संयोगो धारि जीवितम्” इति ; एतेन यः शरीरादिसंयोगः स्पर्शनेन विजानाति सर्व ज्ञेयम्, यश्चायं शरीरधारणाद्धारीत्युच्यते, स हृदि स्थितः ; तेन तदुपघातान्मूर्छा तथा तद्भदान्मरणं चैतन्याननुवृत्तिलक्षणमुपपन्नम् ; स्पर्शी हि द्विविधः-ऐन्द्रियको मानसश्च, एतत् स्पर्शद्वयं विना च न किञ्चित् ज्ञानञ्च भवति, यदुत्तम्-'यश्चैवैन्द्रियकः स्पर्शः स्पर्शी
For Private and Personal Use Only