________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९५०
चरक-संहिता। अर्थेदशमहामूलीयः तत् परस्यौजसः स्थानं तत्र चैतन्यसंग्रहः।
हृदयं महदर्थश्च तस्मादुक्तं चिकित्सिते ॥ कुतो मूर्छायानृच्छति न मृवेत्यत आह-तदित्यादि। तद्धदयं परस्य श्रेष्ठस्यौजसस्वष्टबिन्दुरूपस्य स्थानं यदोजो बलमुच्यते तद्भलस्थानस्योपघातान्न मृला मूर्छायानृच्छति चैतन्याभावरूपान् । यतस्तत्र हृदये चैतन्यसंग्रहः । चेतनायाः समासः परं ब्रह्मस्थितम्। तदुपघातात परमब्रह्मणः स्थित्युपघातादचेतनत्वं भवतीति । तस्माच्चिकित सिते शास्त्रे हृदयं महचाच पर्यायेण मानस एव च। द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः" इति। मानसञ्च स्पर्शनं शारीरे यथास्थानमेव दर्शयिष्यामः। स्पर्शो विज्ञायत इति निरुक्तिपक्षे तु स्पर्शशब्देन लक्षणया स्पृश्यमानोऽर्थोऽभिप्रेतः, तेन सर्वज्ञेयावरोधः, यं प्राप्यैवार्थमिन्द्रियाण्यस्मदर्शनार्थ प्रकाशयन्ति, यदुक्तम्-"स्पृश्यते नानुपादानो नास्पृष्टो वेत्ति वेदनाः" इति। यद्यपि शरीरेन्द्रियसत्त्वारमसंयोगः शरीरप्रदेशान्तरेऽप्यस्ति तथापि नासौ शरीरधारणे तथा ज्ञानोत्पत्तौ वा प्रधानम्, तदुपघातेऽपि शरीरधारणज्ञानयोई एत्वात् । हृद्भुतस्तु संयोगः प्रधानं तदन्वयव्यतिरेकानुविधायित्वात् स्पर्शज्ञानशरीरधारणयोः ; तेन सूक्तम्-'तत् तत्र संश्रितम्” इति । हृदयाभ्यर्हि तत्वे धर्मान्तरमाह-तत्परस्येत्यादि । परस्य श्रेष्ठस्य ; एलेन द्विविधमोजो दर्शयति परमपरञ्च, तत्र भञ्जलिपरिमाणमपरम्, यदुक्तम्-" तावदेव परिमाणं श्लेष्मणश्चौजसः" इति ; अल्पप्रमाणन्तु परम्, यदभिनत्योक्तम्-"हृदि तिष्ठति यच्छुद्ध रक्तमीपत् सपीतकम्” इति। तन्त्रान्तरेऽप्युनम् "प्राणाश्रयस्यौजसोऽष्टौ बिन्दवो हृदयमाश्रिताः” इति । किञ्च, सति हि परे चापरे चौजसि परस्य इति विशेषणं सार्थकं भवति, न त्वेकरूपे। अञ्जिलिपरिमितस्यौजसो धमन्य एव हृदयाश्रिताः स्थानम्, तथा प्रमेहेऽर्दाञ्जलिपरिमितमेवौजः क्षीयते, नारबिन्दुकम्, अस्य हि किञ्चित्क्षयेऽपि मरणं भवति, प्रमेहे तु ओजःक्षये जीवत्येव तावत् ; ओजाक्षयलक्षणमप्यञ्जल्योजःक्षय एव बोद्धव्यम् ; ओजःशब्दश्च यद्यपि रसेऽपि वर्त्तते, यदुक्तम् - "रसश्चौजःसंख्यातः” इति, तथा, “मली भवति तत् प्रायः कल्पते किञ्चिदोजसे” इति । तथापि इह सर्वधातुसारमोजोऽभिधीयते ; एतञ्चौज उपधातुरूपं केचिदाहुः । धातुर्हि धारणपोषणयोगाद भवति, ओजस्तु देहधारकं सदपि न देहपोपकम् तेन नारमो धातुरोजः ; केचित् तु शुक्रविशेषमोजः प्राहुः, तच्च न मनः प्रीणाति ; ये तु ब्रुवते-- सर्वधातूनां सारसमुदयभूतमोजः; ते रसादिसाररूपतया रसादिभ्यो भिन्नमोज इति पृथग्धातुत्वेन उपधातुत्वेन वा निर्देश्यमिति पश्यन्ति ; वचनञ्च-भ्रमरैः फलपुष्पेभ्यो यथा सञ्चीयते मधु । तद्वदोजः शरोरेभ्यो गुणैः सम्भूयते नृणाम् ॥' अत्र शरीरेभ्य इति धातुभ्यः; गुणैरिति सारभागैः । तत्र चैतन्यसंग्रह इति,-तत्र हृदि चैतन्यविषये प्रसृतस्य संग्रह संवरणं करोति, नेन प्रसृतं मनो हृदये निगृह्य योगज्ञो भवतीत्यर्थत इत्युक्त भवति, ततश्च योगस्य मोक्षसाधनत्वेनोपादेयस्यापि हृदयमेव स्थानमिति हृदयमभ्यर्हितं भवति ; यरमादेवंगुणं हृदयम्, ततः ‘महत्' इति च, तथा
For Private and Personal Use Only