________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२ अध्यायः!
सूत्रस्थानम् । तेन मूलेन महता महामूला मता दश । प्रोजोवहाः शरीरेऽस्मिन् विधम्यन्ते समन्ततः ॥ २॥ येनौजसा वर्तयन्ति प्रीणिताः सर्वजन्तवः । यहते सर्वभूतानां जीवितं नावतिष्ठते ॥ यत्सारमादौ गर्भस्य यत्तद्गर्भरसाद्रसः ।
संवईमानं हृदयं समाविशति यत् पुरा ॥ उक्तम्। तत्र सक्तानां सिराणां महामूलवं व्युत्पादयति-तेनेत्यादि। तेन महता हृदयेन मूलेन मूलस्थानेन दश शिरा महामूला मताः। महद्धृदयं मूलं यासां ता महामूला हृदयमूला दश सिराः सक्ताः संलग्नाः सन्ति । महतस्तकारस्याकारो न केवलं महत्त्वार्थे तद्वाच्येषु सर्वेष्वेवार्थेषु भवति, तल्लक्षणेऽथोनियमात्।
ननु महामूला दशेति विरुध्यते। सुश्रते हुक्तं-पाश्चभौतिकस्य चतुविधस्य पड़सस्य द्विविधवीर्यस्याष्टविधवीय्यस्य वानेकगुणस्योपयुक्तस्याहारस्य सम्यक् परिणतस्य यस्तेजोभूतः सारः परममूक्ष्मः स रस इत्युच्यते। तस्य च हृदयं स्थानं स हृदयाच्चतुविशतिधमनीरनु प्रविश्योड़ेगा दश दश चाधोगामिनीश्चतस्रस्तिय्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयतीति । तदाशङ्कां वारयितुमाह-ओजोवहा इति । महामूला दश शिरा
ओजोवहा अस्मिञ्छरीरे समन्ततो विधम्यन्ते ॥२॥ __गङ्गाधरः- नन्वोजो नाम किं तावदित्यत आह-येनेत्यादि। येनौजसा सर्वजन्तवः प्रीणिताः सन्तो वत्तयन्ति जीवन्ति। यदोज ऋते सव्र्वभूतानां जीवितमायुर्नावतिष्ठते। गर्भस्यादौ यच्छुक्रं शोणितञ्च यत्सारं यदोजः सारं यस्य तद् यत् सारं तदोजः ओजःसारं शुक्रं शोणितश्च गर्भस्यादौ तदोजो यत्तत् गर्भरसाद्रस उच्यते। यावत्कालं शुक्रस्य सारं शुक्रात् परिणामान्न पृथग्भूतं
'अर्थ' इति चोच्यते चिकित्सकैः। सम्प्रति धमनीनां महामूलत्वं प्रतिपादयति-तेनेत्यादि । तेनेति महता हृदयेनेति शेषः ; विधम्यन्ते विसर्यन्ते ॥ २॥
चक्रपाणिः-सम्प्रति धमनीनामुक्त महाफलत्वं व्युत्पादयन्नाह-येनौजसेत्यादि। सामान्येन द्विविधमप्योजो ग्राह्यम् ; वर्तयन्ति जीवन्ति, चौरादिको णिच् ; प्रीणिता इति तर्पिताः; यत्सारमादौ गर्भस्येति शुकशोणितसंयोगे जीवाधिष्ठितमात्रे यत्सारभूतम्, तत्रापि तिष्ठति ; यद.
For Private and Personal Use Only