________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५२
चरक-संहिता। [ अर्थेदशमहामूलीयः यस्यानाशान्न * नाशोऽस्ति धारि यद हृदयाश्रितम् । यछरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः ॥ तत्फला बहुधा वा ताः फलन्तीति महाफलाः ।
ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात् सिराः॥३॥ हृदये वर्तते तावत्कालं तदोजःसारं शुक्र गर्भमारब्धं प्रभवति । पृथग्भूते खोजसि शुक्रमसारं भवति न च तद्गभैरस उच्यते। सर्वधातुसारभूतं ह्योजः। तदुक्तं सुश्रुते-तत्र रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्बोजस्तदेव बलमित्युच्यते इति । तदोजःसारण शुक्रेण जातस्य गर्भस्य क्रमेण वर्द्धमानं यदोजः पुरा हृदयं गर्भस्य हृदयं समाविशति, पश्चादेहावयवं कृत्स्नं व्याप्नोति । उक्तञ्च सुश्रुते-ओजः सोमात्मकं स्निग्धं शुक्ल शीतं स्थिरं सरम् । विविक्तं मृदु मृत्स्नञ्च प्राणायतनमुत्तमम् । देहस्यावयवस्तेन व्याप्तो भवति देहिनामिति ।
यस्यानाशादित्यादि। यस्यौजसस्वनाशात् पुसो न नाशोऽस्ति । उक्तश्च मुश्रुते—तदभावाच शीयन्ते शरीराणि शरीरिणामिति। हृदयाश्रितं यद्धारि जीवितं तत्स्थापनहेतुत्वात् तद् यद्धारीत्युच्यते। यदोजः शरीररसस्याद्यधातोः स्नेहः यत्रीजसि प्राणाः प्रतिष्ठिताः, तदोजः खलु येनौजसा वर्तयन्तीत्यादिभिरुक्तप्रभावमोजः फलं यासां तास्तत्फला इत्यतो महाफला दश शिरा अर्थे हृदये सक्ताः। अथवा ता दश हृदये सक्ताः सिरा बहुधा फलन्तीति महाफला उक्ताः। गर्भरसादरस इति गर्भरसात् शुक्रशोगितसंयोगपरिणामेन कललरूपाद, रस इति सारभूतं ; संवर्तमानं हृदयं समाविशति । यत् पुरेति- यदा हृदयं निप्पाद्यमानं तदैव व्यक्तलक्षणं सत् हृदयमधितिष्ठति यदित्यर्थः; एतेन गर्भावस्थात्रयेऽपि तदोजस्तिष्टतीत्युच्यते, परं गर्भादी शुक्रशोणितसाररूप. तया, रसावस्थायान्तु रससाररूपतयाऽवयवनिष्पत्ती स्वलक्षणयुक्तमेव भवत्योज इत्योजसः सर्वावस्थाव्यापकत्वेन महत्त्वमुच्यते ; यस्य नाशात् तु नाशोऽस्तीति धात्वन्तराक्षयेऽपि सत्योजाक्षये मरणमित्यर्थः ; धारीति जीवधारकसंयोगिभ्यः प्रधानत्वात् ; शरीररसस्नेह इति शरीररसशब्दः स्नेहशब्दश्च सारवचनः, तेन शरीररसानां धातूनामपि सार इत्यर्थः, एतच्च प्रकारान्तरेणाभ्यहितानेककर्म कथनमोजसोऽभ्यर्हितत्वख्यात्यर्थम्। तत्फला ओजःफला ओजोबहा इति यावत् ; एतेन यथोक्तगुणशालित्वेनौजो महत् ; एतद्वचने फलन्तीवेति महाफला धमन्य उक्ताः ; विपरीतायां
* यस्य नाशात् तु इति वा पाटः ।
For Private and Personal Use Only