________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः
सूत्रस्थानम् ।
११५३ तन्महत्ता महामूलास्तचौजः परिरक्षत।। परिहार्य्या विशेषेण मनसो दुःखहेतवः ॥ हृद्यं यत् स्याद् यदौजस्य स्रोतसां यत् प्रसादनम् । तत्तत् सेव्यं प्रयत्नेन प्रशमज्ञानमेव च ॥ ४ ॥
अथ खल्वेकं प्राणवर्द्धनानामुत्कृष्टतममेकं बलवर्द्धनानामेकं वृहणानामेकं नन्दनानामेकं हर्षणानामेकमयनानामिति। तत्राहिंसा प्राणिनां प्राणबद्धनानामुत्कृष्टतमा, वीय
सिराः किं धमनीभ्यः पृथगित्यत आह-ध्मानादित्यादि। ध्मानान्मध्ये शुषिरभावाद धमन्य उच्यन्ते। स्रवणाद्रसादिस्रावपथखात् स्रोतांस्युच्यन्ते । सरणाद्रसादीनां गमनात् सिरा इत्युच्यन्ते। इत्येवं प्राणायतनखात् तन्महत् खलु हृदयं ता महामूला ओजोवहा दश सिरास्तचौजः परिरक्षता पुंसा मनसो दुःखहेतवो विशेषेण परिहार्याः, यच हृद्य हृदयस्य हितं स्यात् यदोजस्यमोजोहितं स्याद् यच्च स्रोतसां प्रसादनं प्रशमशानमेव यत् तत्सर्व प्रयत्नेनौजः परिरक्षता सेव्यमिति ॥३४॥ __ गङ्गाधरः-प्रशमशानं विकृणोति-अथेत्यादि। एकं प्राणवर्द्धनानामुत्कृष्टतममिति उत्कृष्टतममुत्तरोत्तरमनुवत्तनीयम् । प्राणवद्धनबलवर्द्धन हणनन्दनहर्षणायनानां पण्णामेकैकमुत्कृष्टतम क्रमेण दर्शयति । तत्राहिंसा प्राणिनां प्राणवर्द्धनानामुत्कृष्टतमा। सवत्रैव अहिंसाशब्देन स्वेतरेषां प्राण्यप्राणिनामपकारक्रिया। यथा परेषां नरादीनां धनग्रहणाद्यनिष्टकरणम्, पृथिव्यादीनां निरुक्तिमाह-बहुधा वा ताः फलन्तीति, ता हृदयाश्रिता दश धमन्यो बहुधाऽनेकप्रकारं फलन्तीति निप्पाद्यन्ते ; एतेन मूले हृदये दशरूपाः सत्यो महासंख्याः शरीरे प्रतानभेदा भवन्तीत्युक्तम् । धमनीशब्दादिनिरुक्ति करोति-ध्मानादित्यादि। ध्मानात् पूरणात् वाह्य न रसादिनेत्यर्थः ; स्रवणादिति रसादेरेव पोप्यस्य स्रवणात् , सरणाद् देशान्तरगमनात् ॥३॥
चक्रपाणिः-सम्प्रति हृदिस्थस्य मनसः परिपालनहेतुमाह-तन्महदित्यादि। तन्महदिति पड़ङ्गादिस्थानं हृदयं ; ता महामूला इत्योजोवहा धमन्यः ; तच्चौज इति "येनौजसा" इत्यादिनोक्तगुणमोजः । प्रशमः शान्तिः । ज्ञानं तत्त्वज्ञानम् ॥ ४ ॥
चक्रपाणिः-सेव्यप्रस्तावेन प्राणवर्द्ध नोत्कृष्टान्यहिंसादीन्यप्याह-अथ खल्वित्यादि । एकमित्येकमेव, न द्वितीयमुत्कृतममस्तीत्यर्थः ; अयनानामिति मार्गाणाम् ; यद्यप्यन्नं प्राणवर्द्धनं
१४५
For Private and Personal Use Only