________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५४
चरक-संहिता। अर्थेदशमहामूलीयः बलवर्द्धनानां, विद्या वृहणानाम्, इन्द्रियजयो नन्दनानां, तत्त्वावबोधो हर्षणानाम्, ब्रह्मचर्यम् अयनानामित्येवमायुर्वेदविदो मन्यन्ते ॥ ५॥
तत्रायुर्वेदविदस्तन्त्रस्थानाध्यायप्रश्नानां पृथक्त्वेन वाक्यशो वाक्यार्थशोऽर्थावयवशश्च प्रवक्तारो मन्तव्याः॥६॥
तत्राह कथं तन्त्रादीनि वाक्यशो वाक्यार्थशोऽर्थावयवशश्च गन्धादिग्रहणादि । तत्राप्यप्राणिनां हिंसाव्यवच्छेदार्थ प्राणिनामित्युक्तम् । माणिनामहिंसा प्राणवद्धनानामन्नपानादीनां सर्वेषां मध्ये श्रेष्ठतमा। अस्य पदस्य लिङ्गविपरिणामेनोत्तरोत्तरं योजना कार्या। वीय्यं शक्तिः पराक्रमः । विद्या द्विविधा-परा चापरा च । यया तदक्षरमधिगम्यते यददृश्यमग्राह्यमगोत्रम् अवर्ण यदपाणिपादमचक्षुःश्रोत्रमित्येवमादि सा परा। अथापरा-शिक्षा कल्पो व्याकरणं छन्दो निरुक्तं ज्योतिषमित्येवमादिसहिताश्चवारो वेदा इति । इन्द्रियजयो मनोनिग्रहः। नन्दयन्तीति नन्दना आनन्दजनका ये भावाः तेपा मध्ये मनोजयः श्रेष्ठतमो नन्दनः। तत्वावबोधो येषां केषाञ्चिदपि भावानां याथार्येनावबोधो हर्षजननानां भावानां मध्ये श्रेष्ठतमो हर्षजननः । ब्रह्मचर्यमुपस्थनिग्रहः, कायवाङ्मनोभिमथुनान्नित्तिः अयनानां परलोकहितपथानां मध्ये श्रेष्ठतमं परलोकहितमयनमिति मनोदुःखहेतुवर्जनमायुव्वंदविदो मन्यन्ते ॥५॥
गङ्गाधरः--ननु कीदृशा भवन्त्यायुदविद इत्यत आह-तत्रेत्यादि । आयुर्वेदस्य तन्त्रतत्स्थानाध्यायप्रश्नानां पृथक्लेन वाक्यशो वाक्याथेशोऽर्थावयवशश्च प्रवक्तारः पुरुषा आयुर्वेद विदो मन्तव्या इति । आयुर्वेदस्य बहनि तन्त्राणि सन्ति ; अग्निवेश-भेल जतूकण-पराशर-हारीत-क्षारपाणि-कणादनागाज्जुन-व्यास-चरक सुश्रुत पुष्कलावत गोपुर रक्षितादिप्रणीतानि ॥६॥
गङ्गाधरः-तत्र जिज्ञासावचनमाह -- तत्राहेत्यादि। कथं तन्त्रादीनि तथाप्यहिंसैवोत्कृया, अहिंसया हि धर्मजननात् तयायुर्वर्द्धनं भवति । यद्यपि मांसं तृहणप्रधान, तथाप तच्छरीरमात्रवृहणं, विद्या तु शरीरमनोवृहणीयाऽतिरिच्यते ॥ ५॥
चक्रपाणिः--आयुर्वेदश्रवणप्रसङ्गेनायुर्वेदनिरुक्तघायुषस्तथायुर्बेदस्य च निरूपकं प्रकरणं ब्रते-तत्रेत्यादि। वाक्यश इत्यादि स्वयमेव व्याकरिष्यति, तन्त्रं शास्त्रम्, आपमृषिकृतम्,
For Private and Personal Use Only