________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः
सूत्रस्थानम् ।
११५५ उक्तानि भवन्तीति ? अत्रोच्यते। तन्त्रमाष कान्येन यथाम्नायमुच्यमानं वाक्यशो भवत्युक्तम् । बुद्धा सम्यगनुप्रविश्यार्थतत्त्वं वाग्भिाससमासप्रतिज्ञाहेतूदाहरणेन युक्ताभिस्त्रिविधपुरुषाणां बुद्धरवगम्याभिः* उच्यमानं वाक्यार्थशो भवत्युक्तम्। तन्त्रनियतार्थानामर्थदुर्गाणां पुनर्विभावनैरुक्तमेवार्थावयवशो भवत्युक्तम् ॥७॥ वाक्यादिक्रमेणोक्तानि भवन्तीत्याह चेत् तदात्रोच्यते। तन्त्रमाष यदधीतमग्निवेशाद्यन्यतमर्षिप्रणीतं तदुच्येत । तत् तन्त्रमुक्त्वा तस्य यावन्ति स्थानानि तानि यात् षट्स्थानं सौश्रुतं तदधीतवद्भिवक्तव्यं-सूत्र-निदान-शारीर-चिकित्साकल्पोत्तरतन्त्राणीति षट् स्थानानि ; तत्र यावन्तोऽध्यायास्तान् ब्रूयात् । एवं सर्वतन्त्राणां स्थानाध्याया वक्तव्याः। अथैतस्यानुपूर्व्या यथाम्नायं का - स्न्येन यदुच्यते पाठात् तद्वाक्यशो भवत्युक्तं तत तन्त्रम् । अथ वाक्यार्थशो यथा भवत्युक्तं तत्तन्त्रं तदाह-बुद्धप्रत्यादि। तस्याधीतस्य तन्त्रस्य पुनरेकैकस्य वाक्यस्यार्थतत्त्वं बुद्धया सम्यगनुपविश्य व्यासादियुक्ताभिर्वाग्भिस्त्रिविधानाम् अल्पबुद्धिमध्यबुद्धितीव्रबुद्धीनां पुरुषाणां त्रिविधबुद्धः अवगम्याभिरुच्यते यत् तद्वाक्यार्थशो भवत्युक्तमिति । अथार्थावयवशश्च यथा वक्तव्यं तदाहतन्त्रेत्यादि । तत्र तत्र तन्त्रे नियता ये अर्था येषां वाक्यानां तेषां मध्ये यानि वाक्यान्यथेतो दुर्गाणि तेषां पुनविभावनैरुक्तं वाक्यमर्थावयवशो भवत्युक्तमिति ॥ ७॥
यथाम्नायमुच्यमानमिति यथापाठक्रमेणोच्यमानम् ; उदाहरणं दृष्टान्तः, उपनयः सिद्धान्तोपपादितस्य साधनधर्मस्य साध्ये पुनः कथनम्, यथा तथा चायं धूमवानिति ; निगमनं हेतुसाधितसाध्यधर्मकथनम्, यथा--तस्मादग्निमानिति ; तन्त्रनियतानामिति तन्त्रगतानाम् ; विभावनैरुक्तमिति व्याख्यानैः कथनम्, उक्तमिति भावे क्तः ; अस्योदाहरणम्, यथा"शरीरचे टा या चेष्टा स्थैर्यार्था बलवर्द्धिनी' इत्यत्र 'इटा या चेा' इत्येतावन्मात्रमुच्यते, तेन द्वितीयचेयापदस्य दुर्गस्य व्याकरणपरं भवति ॥ ६॥७॥
___ * व्याससमासप्रतिज्ञाहेतूदाहारणोपनयनगमनयुक्ताभिस्त्रिविधशिष्यबुद्धिगम्याभिरिति पाठान्तरम्।
For Private and Personal Use Only