________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५६
चरक-संहिता। [ अर्धेदशमहामूलीयः तत्र चेत् प्रष्टारः स्युः चतुर्णामृकसामयजुरथर्ववेदानां कं वेदमुपदिशन्त्यायुर्वेदविदः, किमायुश्च कस्मादायुर्वेदः किमर्थमायुर्वेदः शाश्वतोऽशाश्वतो वा कति चास्याङ्गानि कैश्चायमध्येतव्यः कैः किमर्थमिति ॥८॥
अत्र भिषजा पृष्टेनैवमुच्यते-चतुर्णामृक-साम-यजुरथर्ववेदानामात्मनोऽथर्ववेदेऽस्योक्तिः । वेदो ह्यथर्वा दान-स्वस्तायनबलिमङ्गल-होमनियमप्रायश्चित्तोपवासमन्त्रादिपरिग्रहाञ्चिकित्सां प्राह। चिकित्सा चायुषो हितायोप
गङ्गाधरः-एवं तन्त्रस्थानाध्यायानां प्रश्नानामुत्तरे कृते सति तत्र चेत् के अपि प्रष्टारः स्युरेवम् । तद् यथा । चतुर्णाम् ऋग्वेदादीनां के वेदमायुव्वेदविद उपदिशन्त्यायुर्वेदम् । किञ्चायुरुपदिशन्ति । कस्मात् कारणादायुर्वेद इत्युच्यते। किमर्थं किं प्रयोजनमायुवेदः। स आयुर्वेदः शाश्वतोऽशाश्वतो वा। अस्यायुर्वेदस्य कति चाङ्गानि । कैश्च वर्णस्यमायुव्वेदोऽध्येतव्यः। कैश्च किमर्थमध्येतव्यः इत्येवं चेत् प्रष्टारः स्युरित्यन्वयः ॥ ८॥
गङ्गाधरः-अथ यथात्रोत्तरं वक्तव्यं तदाह-अत्रेत्यादि । एवं पृष्टेन भिषजा वेदश्वोपदिश्य यं वेदमायुर्वेदं तं वेदमुपदिश्यायुर्वाच्यम्। कं वेदमुपदिश्य इत्यत आह–चतुर्णामित्यादि। ऋग्वेदादीनां चतुणां वेदानां मध्येऽथव्वेवैदे, तस्यैवाथव्ववेदस्यात्मन आयुर्वेदस्योक्तिः। अथर्ववेदान्तर्गत आयुव्वेद इत्युपदेष्टव्यम् । कस्मादित्यत आह-वेदो हीत्यादि। हि यस्मात् अथवा नाम वेदो दान-वस्त्ययनबलिमङ्गल-होम-नियम-प्रायश्चित्तोपवास मन्त्रादीनां व्याधिनिवृत्त्यर्थानां परिग्रहाचिकित्सां प्राह । तहिं कथमायुर्वेदः सोऽथर्ववेदः स्यादित्यत आह-यतः स खल्वथव्व वेदो दानस्वस्त्ययनादिभिश्चिकित्सामुवाच । सा चिकित्सा पुनरायुषो हितायोपदिश्यते, तस्मात् स एवाथर्ववेद
चक्रपाणिः- इदानीमायुर्वेदविदः प्रश्नेनैव निर्णेतव्या इत्यतः प्रश्नानाह-तत्र चेदित्यादि। कं वेदमुपदिशन्त्यायुर्वेदमिति शेषः ॥ ८॥
चक्रपाणिः-अथर्ववेदे भक्तिः सेवेत्यर्थः, एतेन भिषक सेव्यत्वेनाथर्ववेदस्यायुर्वेदस्वमुक्त भवति । आयुर्वेदस्याथर्ववेदाभेदहेतुमाह-वेदो हीत्यादि। एतेनैकप्रयोजनवादथर्ववेदैकदेश • उक्तिरित्यत्र भक्तिरिति चक्रः ।
For Private and Personal Use Only