________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः सूत्रस्थानम्।
११५७ दिश्यते । वेदश्चोपदिश्य आयुर्वाच्यम्। तत्रायुश्चेतनानुवृत्ति
र्जीवितमनुबन्धो धारि चेत्येकोऽर्थः । तत्रायुर्वेदयतीत्यायुर्वेदः, कथमिति चेदुच्यते, तत्र च वाच्यं -स्वलक्षणतः सुखासुखतो हिताहिततः प्रमाणाप्रमाणतश्च । यतश्चायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि वेदयत्यतोऽप्यायुर्वेदः ॥६॥ भाग आयुर्वेदः ; इति चतुभ्यो वेदेभ्यो नातिरिक्त आयुर्वेदो न चावेदो नापि वेदाङ्गम्। किन्वथर्वणोऽधिकमङ्गमित्यत उपाङ्गमुच्यते केनचित् । इत्येवं चतुणां वेदानां कं वेदमायुर्वेदमुपदिशन्त्यायुवेदविद इति प्रश्नोत्तरमुपदिश्य किमायुश्चेति प्रश्नविषयमायुर्वाच्यम्। तत्रेत्यादि। तत्रायुव्वेद खायुरुक्तम् । चेतनानुत्तिर्जीवितमनुबन्धो धारि चेति पर्याय एकार्थ इति । चेतनानुवत्तते यत्र येन वेति चेतनानुत्तिरायुः, जीवितं जीव प्राणधारणे इति जीवति अस्मिन्निति जीवितमायुरधिकरणे क्तः। अनुबन्ध इति। पूर्वपूर्वमानापायादनु पश्चादुत्तरोत्तरमानेन बध्नाति यः सोऽनुबन्ध आयुः शरीरेन्द्रियसत्त्वात्मसंयोगः। पचादिखादच् पुंलिङ्गः। धारि चायुः, धारयितुं शीलमस्येति धारि, चौरादिको धृधारणे, धृञ्धारणे भौवादिको वा तौदादिको धृङ् स्थिति. धारणयोर्वेति। इत्यायुरुत्वा कस्मादायुव्वेद इत्यस्योत्तरमाह-तत्रेत्यादि। आयुर्वेदयतीत्यस्मादायुवेंदो नामोच्यते। सुश्रुते तु आयुर्वेत्ति वेदयति विन्दत्यस्मादस्मिन् वेत्यायुर्वेद इत्युक्तम्। तत्र कथमायुर्वेदयतीति चेत् पृच्छति, तदोच्यते। खलक्षणतः स्वरूपलक्षणतः सुखतोऽमुखतो हिततोऽहिततश्च प्रमाणतोऽप्रमाणतश्चेति। आयुर्वेदयतीत्यायुव्वेदः। अथ किमर्थमायुर्वेद इत्यस्योत्तरमायुषो हिताहितार्थमायुर्वेद इत्येवमाह-यतश्चेत्यादि। यतो एवायुर्वेद इत्युक्त भवति । प्रश्नक्रमेण वेदं प्रतिपाद्यायुरेव प्रतिपादनीयं भवतीत्याह-वेदञ्चोपदिश्येत्यादि। चेतनानुवृत्तिरिति चैतन्यसन्तानः; एतच्च गर्भाधवधिमरणपर्यन्तं बोद्धव्यम्, तदूर्द्ध चेतनाननुवृत्तेः, साक्षादनुपलब्धत्वेनैवाननुवृत्तिरिति भावः । न च वाच्यम्-प्रसुप्तस्य चैतन्यविच्छेदो मवति ; यतस्तत्रापि 'सुखमहमस्वाप्सम्' इत्युत्तरकालीनप्रतिसन्धानदर्शनात् सूक्ष्मज्ञानमस्त्येव । यद्यपि दीर्घञ्जीवितीये 'शरीरादिसंयोग आयुः' इत्युक्तम्, तथापि तत्काय॑त्वादिह चैतन्यानुवृत्तिः कार्यकारणयोरभेदविवक्षयायुरुच्यते ; अनुबन्धधारिशब्दौ प्रथमाध्याये व्याकृतौ । 'कस्मादायुर्वेदः” इत्यस्योत्तरम्,-तत्रायुरित्यादि । वेदयति बोधयति ; ये त्वत्र तन्त्रान्तरे विदेर्लाभादयोऽर्था व्याख्याताः, ते साक्षात् तु तदर्थजन्या इतीह नोक्ताः ; स्वलक्षणतः इत्यादि
For Private and Personal Use Only