________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४८
चरक-संहिता। अर्थेदशमहामूलोयः प्रतिष्ठाथ हि भावानामेषां हृदयमिष्यते।
गोपानसीनामागार-कर्णिकेवार्थचिन्तकैः ॥ स्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुख एवमेव सप्ताङ्ग एकोनविंशतिमुखो वहिःप्रज्ञो जागरितस्थानो वैश्वानरः सुषुप्तिस्थानश्चेतोमुखः प्राज्ञो जीवात्ममहत्तत्त्वोपाधिमान्। तुरीयः परमात्मा शिव इति चतुष्पादात्मा स एव सगुण इति आत्मगुणा इच्छा पसुखदुःखप्रयत्नचेतनातिबुद्धिस्मृत्यहङ्काराः। सहात्राधिकार्थे सांधेद्रोण इत्यादिवत् । चेतो मनः सत्त्वसंज्ञकम्। चिन्त्यं तेन चेतसा यावचिन्तयितुं शक्यते तत्सव्वं हृदि संस्थिमिति । अथ शारीरेहृदयं द्वाङ्गलं वक्ष्यते पड़ङ्गानि हस्तौ द्वौ द्वौ च पादौ शिरश्चान्तराधिश्चेत्येतानि वृहन्ति वाह्यानि तत्र हृदये स्थातुं नाहन्तीति मला विज्ञानादीनि चिन्त्यान्तानि पड़गानि यस्याङ्गस्य तत् मूक्ष्मशरीरमथवा पश्चमहाभूतान्यात्मा चेति षडङ्गानि यस्य तदङ्गसूक्ष्मशरीरमेव विज्ञानादीनि चेति सच हृदि संस्थितमिति ।
कस्मादित्यत आह–प्रतिष्ठाथ हीत्यादि। हि यस्मात् खल्वेषामुक्तानां भावानां प्रतिष्ठार्थ प्रतिनियमेन स्थित्यर्थ हृदयमिष्यतेऽर्थचिन्तकैः । ननु कथमेषां प्रतिष्ठा हृदये सम्भवति चिन्त्यं हि जगदेव सर्व मनसः सुमेरुप्रभृति वृहत् क्षुद्रं वा। हृदयन्तु प्राङ्गलमित्यतो दृष्टान्तेन प्रतिष्ठाप्रकारमाह-गोपानसीनामित्यादि। गोपानसी तु बड़भी गृहाच्छादनावयववक्रयस्य तत् षडङ्गमङ्गम् ; अङ्गञ्च पड़ङ्गादतिरिक्त समुदायरूपम् अवयविरूपं वा ; अङ्गमिति वक्तव्ये पड़ङ्गविशेषणं पण्णामङ्गानामपि हृदयाश्रितत्वप्रतिपादनार्थम् ; किंवा अङ्गशब्दस्यावयव. वाचिनो निषेधार्थम् ; विज्ञानञ्च यद्यपि “आत्मा च सगुणः” इति वचनादेव आत्मगुणत्वेन लब्धम् , तथाप्यात्मगुणेषु प्राधान्यात् पुनः पृथगुच्यते, वचनं हि--"सुखं समग्रं विज्ञानं विसर्गे च प्रतिष्ठितम्" इति । इन्द्रियाणि चक्षुरादोनि ; अर्थपञ्चकं शब्दादि ; सगुण इत्यनेन सुखादिग्रहणम् ; चेतो मनः ; चिन्त्यं मनोविषयः ; एते च पड़ङ्गविज्ञानादयः श्रुतिप्रतिपठिताः प्रत्येकमेवोपादेयत्वेन, तेन, अत्र कस्यचिदर्थलब्धत्वेनानुपादानं कर्त्तव्यमिति नोद्भावनीयम्, अर्थलब्धो ह्यर्थः साक्षादनभिधीयमानत्वादप्रधानं भवति । ___ अथ कथममी पड़ङ्गादयो हृदयाश्रयाः, "यावता हृदयं द्वयङ्गुलञ्च" इति वक्ष्यति, अङ्गञ्च पड़ङ्गाश्रयं महत्, इन्द्रियाण्यपि च स्वाश्रयचक्षुरादिस्थितानि, अर्थाश्च वाह्यद्रव्याश्रयिणः आत्मा चानाश्रित एव व्यापकः, तद्गुणश्च विज्ञानञ्चात्मन्येवाश्रितम्, मनोऽप्यनाश्रितमात्मगतम्, चिन्त्यञ्च ध्येयादि न हृदीत्याशङ्कयाह-प्रतिष्ठेत्यादि। प्रतिष्ठा कार्यकारणाविरोधेनावस्थानम्। भावानामेषामिति षडङ्गादीनाम्, हृदयमिप्यत इति हृदयमिष्यते कारणमिति शेषः ; अत्रैव दृष्टान्तमाह
For Private and Personal Use Only