________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रिंशोऽध्यायः। अथातोऽर्थदशमहामूलीयामध्यायं व्याख्यास्यामः,
इतिह स्माह भगवानात्रं यः ॥ १॥ अर्थ दश महामूला सिराः सत्ता * महाफलाः । महचार्थश्च हृदयं पर्यायैरुच्यते बुधैः ॥ षडङ्गमङ्ग विज्ञानमिन्द्रियाण्यर्थपञ्चकम् ।
आत्मा च सगुणरचेतश्चिन् यश्च हृदि संस्थितम् ॥ गङ्गाधरः--अथ प्राणायतनेषु दशसु हृदयस्य प्राधान्यं ख्यापयितु तथा यश्च वक्ष्यामि मानार्थमर्थेदशमहामूलीयं तत्र च कृत्स्नतन्त्रोद्देशलक्षणस्येत्युक्तं तदुद्देशकरणाथेमर्थदशमहामूलीयमारभते-अथात इत्यादि। पूववव्याख्येयम्। अध्यायस्यास्यादिवाक्यमर्थदशमहामूला इति अधिकृत्य कृतोऽध्याय इत्यर्थदशमहामूलीयस्तम् ॥१॥
गङ्गाधरः-अर्थे दशेत्यादि। अर्थे हृदये दश सिराः सक्ताः, कथं सक्ताः ? महामूला हृदये महति मूलानि यासां ता महामूलास्ताश्च महाफला महत्पदेन हृदयं तात्स्थ्यादोजश्चोच्यते । महदोजः फलन्तीति महाफला इति। एतदद्धश्लोकं व्याचष्टे--महच्चेत्यादि। बुधैः पर्यायमहदों हृदयमुच्यते। हृदयमिति शब्दं व्युत्पादयति--पड़ङ्गमित्यादि । अङ्गं कृत्स्नं शरीरं तदवयवश्च । तत्राङ्गं सर्वात्मकत्वज्ञापनायाह--पड़ङ्गमिति । षडङ्गान्यवयवा यस्य तत् पड़ङ्गमङ्गं शरीरं विज्ञानं प्रमाणाप्रमाणभूतं ज्ञानम् इन्द्रियाणि दश अर्थपञ्चकं पञ्च शब्दादयोऽर्थाः तदर्थाश्रयपञ्चमहाभूतोपाधिमान् भूतात्मा द्विविधस्तैजसः स्वप्न
चक्रपाणिः -- पारिशेष्यात्, किंवा, सूत्रस्थानमभिधाय तन्त्रसंग्रहं वक्त म् अर्थेदशमहामूलीय उच्यते ; अत्र अधिकृत्य कृते ग्रन्थे हर सुवर्तमाने 'अध्यायानुवाकयोलुंग' इति च्छः ॥ १॥
चक्रपाणि:-अर्थ इति हदये, महामूला इति महत् हृदयं मूलं यासां धमनीनां तास्तथा, समासक्ता इत्याश्रिताः ; अस्य हृदयस्य पर्यायानाह-महच्चेत्यादि। महत्संज्ञा तथाऽर्थसंज्ञा च हृदयस्य। वैद्यव्यवहारविज्ञानसशास्त्रान्तरेषु हृदयस्य यन्महत्त्वमर्थत्वञ्च, तदहृदयस्याभ्यहितत्वात्, इत्यभ्यहि तत्वमाह-पड़ङ्गमित्यादि। पड़ङ्गानि बाहुकृयजङ्घाद्वयशिरोऽन्तराधिरूपाणि
* समासक्ता इति क्वचित् पाठः ।
For Private and Personal Use Only