Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1166
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०श अध्यायः सूत्रस्थानम् । ११५५ उक्तानि भवन्तीति ? अत्रोच्यते। तन्त्रमाष कान्येन यथाम्नायमुच्यमानं वाक्यशो भवत्युक्तम् । बुद्धा सम्यगनुप्रविश्यार्थतत्त्वं वाग्भिाससमासप्रतिज्ञाहेतूदाहरणेन युक्ताभिस्त्रिविधपुरुषाणां बुद्धरवगम्याभिः* उच्यमानं वाक्यार्थशो भवत्युक्तम्। तन्त्रनियतार्थानामर्थदुर्गाणां पुनर्विभावनैरुक्तमेवार्थावयवशो भवत्युक्तम् ॥७॥ वाक्यादिक्रमेणोक्तानि भवन्तीत्याह चेत् तदात्रोच्यते। तन्त्रमाष यदधीतमग्निवेशाद्यन्यतमर्षिप्रणीतं तदुच्येत । तत् तन्त्रमुक्त्वा तस्य यावन्ति स्थानानि तानि यात् षट्स्थानं सौश्रुतं तदधीतवद्भिवक्तव्यं-सूत्र-निदान-शारीर-चिकित्साकल्पोत्तरतन्त्राणीति षट् स्थानानि ; तत्र यावन्तोऽध्यायास्तान् ब्रूयात् । एवं सर्वतन्त्राणां स्थानाध्याया वक्तव्याः। अथैतस्यानुपूर्व्या यथाम्नायं का - स्न्येन यदुच्यते पाठात् तद्वाक्यशो भवत्युक्तं तत तन्त्रम् । अथ वाक्यार्थशो यथा भवत्युक्तं तत्तन्त्रं तदाह-बुद्धप्रत्यादि। तस्याधीतस्य तन्त्रस्य पुनरेकैकस्य वाक्यस्यार्थतत्त्वं बुद्धया सम्यगनुपविश्य व्यासादियुक्ताभिर्वाग्भिस्त्रिविधानाम् अल्पबुद्धिमध्यबुद्धितीव्रबुद्धीनां पुरुषाणां त्रिविधबुद्धः अवगम्याभिरुच्यते यत् तद्वाक्यार्थशो भवत्युक्तमिति । अथार्थावयवशश्च यथा वक्तव्यं तदाहतन्त्रेत्यादि । तत्र तत्र तन्त्रे नियता ये अर्था येषां वाक्यानां तेषां मध्ये यानि वाक्यान्यथेतो दुर्गाणि तेषां पुनविभावनैरुक्तं वाक्यमर्थावयवशो भवत्युक्तमिति ॥ ७॥ यथाम्नायमुच्यमानमिति यथापाठक्रमेणोच्यमानम् ; उदाहरणं दृष्टान्तः, उपनयः सिद्धान्तोपपादितस्य साधनधर्मस्य साध्ये पुनः कथनम्, यथा तथा चायं धूमवानिति ; निगमनं हेतुसाधितसाध्यधर्मकथनम्, यथा--तस्मादग्निमानिति ; तन्त्रनियतानामिति तन्त्रगतानाम् ; विभावनैरुक्तमिति व्याख्यानैः कथनम्, उक्तमिति भावे क्तः ; अस्योदाहरणम्, यथा"शरीरचे टा या चेष्टा स्थैर्यार्था बलवर्द्धिनी' इत्यत्र 'इटा या चेा' इत्येतावन्मात्रमुच्यते, तेन द्वितीयचेयापदस्य दुर्गस्य व्याकरणपरं भवति ॥ ६॥७॥ ___ * व्याससमासप्रतिज्ञाहेतूदाहारणोपनयनगमनयुक्ताभिस्त्रिविधशिष्यबुद्धिगम्याभिरिति पाठान्तरम्। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204