Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1136
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८श अध्यायः सूत्रस्थानम् । ११२५ व्याधिनोपपादयन्ति। तस्माद्विताहारोपयोगिनोऽपि दृश्यन्ते च व्याधिमन्तः। अहिताहारोपयोगिनां पुनः कारणतः न सद्यो दोषवान् भवत्यपचारः। न हि सर्वाण्यपथ्यानि तुल्यदोषाणि, न च सर्वे दोषास्तुल्यबलाः, सर्वाणि शरीराणि न व्याधिनमित्वे समर्थानि भवन्ति । तदेव ह्यपथ्यश्च देशकालसंयोगवीर्यप्रमाणातियोगाद भूयस्तरमपथ्यं सम्पद्यते । स एव व्याधिरूपेणाशुभेनोपपादयन्ति। तस्माद्धिताहारोपयोगिनोऽपि पुरुषा व्याधिमन्तो दृश्यन्ते। अथाहितसमाख्यातमाहारमुपयुञ्जाना ये चागदा दृश्यन्ते तत्र ब्रूमः। अहिताहारोपयोगिनां घुसान्तु सोऽपचारो न सद्यो दोपवान् भवति कारणतः प्रतिबन्धककारणान्तरतः न सद्योऽशुभकरो भवति यावदोपवान् न भवति सोऽपचारस्तावत् ते खगदा दृश्यन्ते यदा दोपवान् स्यात् तदा व्याधिमन्तो भवन्ति । कस्मान्न सद्यो दोषवान् भवति सोऽपचारः ? इत्यत आह-न हीत्यादि। हि यस्मात् सळण्यपथ्यानि न तुल्यदोषाणि भवन्ति। कानिचित् सद्योदोषवन्ति कानिचित् कालान्तरदोषवन्ति भवन्ति तत्स्वभावात्। ये च तेपामपथ्यानां दोषास्तेऽपि सचे दोषा न तुल्यवलाः ; केचिदल्पबलाः केचिन्मध्यबलाः केचित् प्रवलबलाः। एवं चेत् तत्रापि पुंसां शरीराणि सर्वाणि न व्याधिक्षमित्वे समर्थानि भवन्ति। कानिचिच्छरीराणि व्याधिसहानि व्याधिमन्तापि चाव्याधीनीव भान्ति, व्याधिक्षमिले समर्थखात्। कानिचिच्छरीराणि यत्किश्चिद व्याधिमन्तापि प्रबलव्याधिमन्तीव भान्ति व्याधिक्षमिले सामर्थ्याभावात्। तथाचाह-तदेवेत्यादि। यदपचारादगदाः पुरुषा दृश्यन्ते हि यस्मात् तत् अपथ्यमल्पवलं न सद्योदोपवद्भवति देशकालायतियोगाद भूयस्तरं बलवरोगकारणानि ; अहिताहारोपयोगिनामित्यादि। कारणत इति निमित्तान्तरात् प्रतिबन्धकात्, तच्च कारणम्,-"तदेव ह्यपथ्य-मित्यादिवक्ष्यमाणग्रन्थविपरीतं बोद्धव्यम् । सद्य इति तत्कालम्, अनेनापथ्यस्य रोगजननं प्रति कालान्तरविकारकर्तृत्वं प्रायो भवतीति दर्शयति, अन्यथा सद्य इत्यनर्थकं स्यात् कालान्तरेऽपि दोपा कर्तृत्वात् ; दोपवानिति व्याधिजनकः, अपचार इति अहिताहारोपयोगः ; उक्तकारणमाह-न हीत्यादि। तुल्यदोषाणीति तुल्यदोषकराणि ; व्याधिक्षमित्वं व्याधिबलविरोधित्वं व्याध्युत्पादप्रतिबन्धकत्वमिति यावत् ; तदेवापथ्यतुल्यदोषादि विवृणोति-तदेवेत्यादि । अत्र यद्यपि प्रस्तुतत्वादपथ्यप्रतिबन्धकानि कारणानि वक्तव्यानि, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204