Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९श अध्यायः सूत्रस्थानम् ।
११४३ श्लाघमाना विशिखारथ्यान्तरमनुचरन्ति कर्मलोभात्, श्रुत्वा च करयविदातुर्य्यमभितः परिपतन्ति, संश्रवणे चास्यात्मनो वैद्यगुणानुच्चैर्वदन्ति, ते च यस्य प्रतिकर्म कुर्वन्ति तस्य च दोषान् मुहुर्मुहुरुदाहरन्ति, आतुरमित्राणि प्रर्षणोपजल्पोपसेवादिभिरिच्छन्त्यात्मीकर्तुम्, अल्पेच्छुताश्च प्रात्मनः ख्यापयन्ति । कर्म चासाद्य मुहुर्महुरवलोकयन्ति दादयेणाज्ञानमात्मनः प्रच्छादयितुकामाः, व्याधिश्चापावतयितुमशक्लवन्तो व्याधितमेवानुपकरणमपचारिकमनात्मवन्तमुपदिशन्ति, अन्तगतञ्चैनमभिसमीक्ष्यान्यमाश्रयन्ति देशमपदेशमात्मनः विशिखान्तरं रथ्यां रथ्यां गला रथ्यान्तरमनुचरन्ति । तत्र कुत्रचित् कस्यचिदातुर्य शृणोति, श्रुखा च तदातुर्यमभितस्तस्य गृहस्य चतुषु पाश्वेषु परिपतन्ति परिभ्रमन्ति। संश्रवणे च तेषामातुरस्यात्मनां श्रवणं यथा स्यात् तथात्मगुणान् स्वस्य वैद्यगुणान चिकित्सासु दाक्ष्यादिगुणानुच्चैवेदन्ति । यथोत्तरमातुरस्यामात्यो वा तद्वाक्यं श्रोतुमहे ति। ते च वैद्या यदि कस्यचित् व्याधिः तस्य चिकित्साकर्म प्राप्य कुर्वन्ति यदि प्रतिकर्मसिद्धिं न कत्तु प्रभवन्ति तदा तस्यातुरस्य दोषान् दोषाभावेऽप्युदाहरन्ति । नायमात्मवान कुपथ्यसेवी चाथवा कृपणोऽर्थव्यये भेषजविधानार्थमित्येवमादीन् । एवं तस्यातुरस्य मित्राणि प्रहर्षणकम्मेणा उपजल्पनकम्मेणोपसेवनकम्मेणा चैवमादिभिस्तोपामोदसमूहेनात्मीकत मिच्छन्ति। चिकित्सा विधाने चाथ प्राप्तावल्पार्थकाङ्क्षाञ्च ख्यापयन्ति। ते च यस्य चिकित्साकम्म प्राप्नुवन्ति प्राप्य कम्म खल निजस्य तत् कम्सग्यज्ञानं प्रच्छादयितुकामा गोपयितुकामा दाक्ष्येण तत्कम्मणि दक्षताव्यञ्जकेन चतुरताधम्मेण मुहम्मु हुरितस्ततोऽवलोकयन्ति । केऽपि तस्व तत्कम्र्मण्यज्ञानं बोद्ध न यथा प्रभवेयुः। यदि तस्य व्याधिम अपावत्तेयितुं न शक्नुवन्ति तदा तं व्याधितमनुपकरणमर्थव्ययासमथ भेषजकरणाक्षमपपचारकारिणमनात्मवन्तमित्येवमन्यत्रोपदिशन्ति.। यदि चायमातुरोऽन्तं गच्छति तदनं मृतं दृष्ट्वात्मनो निजस्यापदेशं तद्देशमपवज्ज्जेनं इत्युच्यते लोके ; राज्ञां प्रमादादिति राज्ञा हि ते कुवैद्याः शासनीयाः । विशिखा रथ्या, किंवा कर्ममात्रम् ; संश्रवणे चास्येत्यातुरस्य श्रवणयोग्ये प्रदेशे ; अन्तगतमिति मुमूर्षुम् ; अपदेश
For Private and Personal Use Only

Page Navigation
1 ... 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204