________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८श अध्यायः
सूत्रस्थानम् ।
११२५ व्याधिनोपपादयन्ति। तस्माद्विताहारोपयोगिनोऽपि दृश्यन्ते च व्याधिमन्तः। अहिताहारोपयोगिनां पुनः कारणतः न सद्यो दोषवान् भवत्यपचारः। न हि सर्वाण्यपथ्यानि तुल्यदोषाणि, न च सर्वे दोषास्तुल्यबलाः, सर्वाणि शरीराणि न व्याधिनमित्वे समर्थानि भवन्ति । तदेव ह्यपथ्यश्च देशकालसंयोगवीर्यप्रमाणातियोगाद भूयस्तरमपथ्यं सम्पद्यते । स एव व्याधिरूपेणाशुभेनोपपादयन्ति। तस्माद्धिताहारोपयोगिनोऽपि पुरुषा व्याधिमन्तो दृश्यन्ते। अथाहितसमाख्यातमाहारमुपयुञ्जाना ये चागदा दृश्यन्ते तत्र ब्रूमः। अहिताहारोपयोगिनां घुसान्तु सोऽपचारो न सद्यो दोपवान् भवति कारणतः प्रतिबन्धककारणान्तरतः न सद्योऽशुभकरो भवति यावदोपवान् न भवति सोऽपचारस्तावत् ते खगदा दृश्यन्ते यदा दोपवान् स्यात् तदा व्याधिमन्तो भवन्ति । कस्मान्न सद्यो दोषवान् भवति सोऽपचारः ? इत्यत आह-न हीत्यादि। हि यस्मात् सळण्यपथ्यानि न तुल्यदोषाणि भवन्ति। कानिचित् सद्योदोषवन्ति कानिचित् कालान्तरदोषवन्ति भवन्ति तत्स्वभावात्। ये च तेपामपथ्यानां दोषास्तेऽपि सचे दोषा न तुल्यवलाः ; केचिदल्पबलाः केचिन्मध्यबलाः केचित् प्रवलबलाः। एवं चेत् तत्रापि पुंसां शरीराणि सर्वाणि न व्याधिक्षमित्वे समर्थानि भवन्ति। कानिचिच्छरीराणि व्याधिसहानि व्याधिमन्तापि चाव्याधीनीव भान्ति, व्याधिक्षमिले समर्थखात्। कानिचिच्छरीराणि यत्किश्चिद व्याधिमन्तापि प्रबलव्याधिमन्तीव भान्ति व्याधिक्षमिले सामर्थ्याभावात्। तथाचाह-तदेवेत्यादि। यदपचारादगदाः पुरुषा दृश्यन्ते हि यस्मात् तत् अपथ्यमल्पवलं न सद्योदोपवद्भवति देशकालायतियोगाद भूयस्तरं बलवरोगकारणानि ; अहिताहारोपयोगिनामित्यादि। कारणत इति निमित्तान्तरात् प्रतिबन्धकात्, तच्च कारणम्,-"तदेव ह्यपथ्य-मित्यादिवक्ष्यमाणग्रन्थविपरीतं बोद्धव्यम् । सद्य इति तत्कालम्, अनेनापथ्यस्य रोगजननं प्रति कालान्तरविकारकर्तृत्वं प्रायो भवतीति दर्शयति, अन्यथा सद्य इत्यनर्थकं स्यात् कालान्तरेऽपि दोपा कर्तृत्वात् ; दोपवानिति व्याधिजनकः, अपचार इति अहिताहारोपयोगः ; उक्तकारणमाह-न हीत्यादि। तुल्यदोषाणीति तुल्यदोषकराणि ; व्याधिक्षमित्वं व्याधिबलविरोधित्वं व्याध्युत्पादप्रतिबन्धकत्वमिति यावत् ; तदेवापथ्यतुल्यदोषादि विवृणोति-तदेवेत्यादि । अत्र यद्यपि प्रस्तुतत्वादपथ्यप्रतिबन्धकानि कारणानि वक्तव्यानि,
For Private and Personal Use Only