________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२४
चरक-संहिता। विविधाशितपीतीयः भगवन् हितप्तमाख्यातमप्याहारमुपयुञ्जाना व्याधिमन्तश्चैव अगदास्तथैवाहितसमाख्यातम् । एवं दृष्ट कथं हिताहितोपयोगविशेषात्मकं शुभाशुभविशेषमुपलभामहे इति ॥ ४ ॥ . तमुवाच भगवानात्रयः। न हिताहारोपयोगिनामनिवेश तन्निमित्ता व्याधयो हि जायन्ते। न च केवलं हिताहारोपयोगादेव सर्वव्याधिभयमतिकान्तं भवति । सन्ति हातेऽप्याहारोपयोगात् ॐ अन्या रोगप्रकृतयः; तद् यथा-काल विपर्यायः परिणामः प्रज्ञापराधः शब्दस्पर्शरूपरसगन्धाश्च असात्म्याः । इत्येता रोगप्रकृतयो रसान सम्यगुपयुञ्जानमपि पुरुषमशुभेन समाख्यातमप्याहारमुपयुञ्जाना नरा व्याधिमन्तश्चागदाश्च दृश्यन्ते, तथाचाहितसमाख्यातञ्चाहारमुपयुञ्जाना नरा व्याधिमन्तश्चैवागदाश्च दृश्यन्ते। एवं दृग्टे सति कथं हिताहितोपयोगविशेषकृतं शुभाशुभविशेष जानीमः ? इति ॥४॥
एवं पृष्टस्तु भगवानात्रेयस्तमग्निवेशमुवाच नेत्यादि । हे अग्निवेश न खलु हिताहारोपयोगिनां तन्निमित्तव्याधय आहारनिमित्ता व्याधयो जायन्ते । तहि च तेषां हिताहारोपयोगिनां ये व्याययो दृश्यन्ते न च ते व्याधय आहारनिमित्ताः, यतो हिताहारोपयोगादेव केवलं सर्वव्याधिभयमतिक्रान्तं न भवति। कस्मादित्यत आह-सन्तीत्यादि । हि यस्मादाहारोपयोगातेऽप्यन्या रोगाणां प्रकृतयः कारणानि सन्ति, तन्निमित्तास्ते व्याधयस्तेषामिति । काः पुनस्ता आहारोपयोगादन्या रोगप्रकृतय इति ? तदाह-तद् यथेत्यादि । कालविपर्ययः परिणामो नाम, प्रज्ञापराध एवमसात्म्याश्च शब्दादय इति । इत्येता रोगप्रकृतयः खलु रसान् हिनाहारान् सम्यगुपयुञ्जानमपि पुरुषं
चक्रपाणिः- दृश्यन्ते हि भगवन्नित्यादौ तथैवाहितसमाख्यातम् उपयुञ्जाना ब्याधिमन्नश्चागदाश्चेति सम्बन्धः, विशेषात्मकमिति विशेषोद्भवम् ॥ ४॥
चक्रपाणिः-तन्निमित्ता इति हिताहारनिमित्ताः ; न केवलमिति न परम् ; रोगप्रकृतय इति
* अहिताहारोपयोगादिति चक्रसम्मतः पाठः साधीयान् ।
For Private and Personal Use Only