________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८श अध्यायः सूत्रस्थानम् ।
११२३ समुपलभ्यन्ने। तेषां मलप्रसादाख्यानां धातूनां स्रोतांस्ययनमुखानि, तानि यथाविभागेन यथास्वधातून पूरयन्ति। एवमिदं शरीरम् अशितलीढ़पीतखादितप्रभवम् अशितखादितपीतलीढ़प्रभवाश्च शरीरेऽस्मिन् व्याधयो भवन्ति । हिताहितोपयोगविशेषास्तत्र शुभाशुभकरा भवन्तीति ॥ ३॥
· एवंवादिनं भगवन्तमात्र यमग्निवेश उवाच। दृश्यन्ते हि
केन पथा ते पोपकाः स्युरिति ? अत उच्यते-तेपामित्यादि । तेषां मलाख्यानां प्रसादाख्यानाञ्च धातूनामयनस्य गमनस्य मुखानि स्रोतांसि, तानि स्रोतांसि यथास्वं यस्य धातोर्यत् स्रोतस्तद्धि खलु यथाविभागेन पूच्चपूर्वधातुना परपरधातून पूरयन्ति । एवमित्यादि । अनेन प्रकारेणाशितपीतलीढ़वादिताहारप्रभवमिदं शरीरं यथा, तथैवाशिनादिप्रभवाश्च व्याधयोऽस्मिञ्छरीरे भवन्ति । कथमित्यत आह--हिताहितेत्यादि। तत्र हिताहारोपयोगविशेषाः शुभकरा आरोग्यकरा भवन्ति । अहिताहारोपयोगविशेषा अशुभ. करा व्याधिकरा भवन्ति । इति ॥३॥ __ अथात्र संशयानस्याग्निवेशस्य प्रश्नमुपन्यस्तुमाह-एवंवादिनमित्यादि। तत्प्रश्नं दर्शयति-दृश्यन्ते हीत्यादि। हि यस्माद्भो भगवन् गुरो हितयथायोग्यतयोपचर्यमाणा इति ज्ञेयम् । एतेन वृद्धमलानां त्रिविधोऽप्युपक्रमो निदानवर्जनशोधनशमनरूप उक्तो भवति, अत्र निदानवर्जन वृद्धमले मलवृद्धिहेत्वाहारपरित्यागादल्पमलाहारोपयोगाद वा बोद्धव्यम्, संशोधनज्ञ ‘उत्सर्गिणः” इत्यनेनोनम्, शमनञ्च ‘शीतोष्ण” इत्यादिनन्थे। नोकम् । ___ अयनानि च तानि मुखानि चेत्ययनमुखानि, अत्रायान्त्यनेनायनानि, स्वनामस्रोतोमुखञ्चायनञ्च ; किंवा अयनस्यागमनस्य मुखानि मार्गाणि, तेन अयनमुखानि गतिमार्गाणीत्यर्थः ; तानि च स्रोतांसि मलप्रसादपूरितानि। धातून् यथास्वमिति यद् यस्य पोप्यं तच्च तत् पूरयति ; यथाविभागेनेति-यस्य धातोर्यो विभागः प्रमाणं तेनैव प्रमाणेन पूरयति, ताहकप्रमाणान्येव पुष्यन्ति, नाधिकानीत्यर्थः । एतच्च प्रकृतिस्थानां कर्म ; विकृतानान्तु न्यूनातिरिक्तधातुकरणमस्त्येवेति बोद्धव्यम् ; उक्तञ्चान्यत्र-"स्रोतसा च यथास्वेन धातुः पुष्यति धातुना” इति ।
उपसंहरति-एवमित्यादि। कथमशितादेविरुद्धयोः शरीरतदुपघातकरोगयोरुत्पाद इत्याहहिताहितेत्यादि। हितरूपोऽशितादिविशेष: शुभरूपविशेषकारकः, अहितरूपस्स्वशितादिविशेषोऽशुभरूपविशेषकरो भवतीति । तेन नैव रूपात् कारणात् विरुद्ध कार्योदय इति भावः ॥३॥
For Private and Personal Use Only