________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२२
चरक-संहिता। विविधाशितपीतीयः निमित्ततस्तु क्षीणाभिवृद्धानां प्रसादाख्यानां धातूनां वृद्धिक्षयाभ्यामाहारमूलाभ्यां रसः साम्यमुत्पादयत्यारोग्याय किट्टश्च मलानामेव। स्वमानातिरिक्ताः पुनरुत्सर्गिणः शीतोष्णपर्यायगुणश्च उपचर्यमाणा मलाः शरीरधातुसाम्यकराः
गङ्गाधरः-ननु समधातोर्धातुसाम्यमनुवत्तयतो रसमलौ विपमधातुश्च पुरुषो यदभ्यवहरति तत् किं व्यर्थ स्यादित्यत उच्यते-निमित्ततस्वित्यादि । निमित्तविशेषात् क्षीणातिद्धधातूनां प्रसादाख्यानां रसादीनामाहारभूलाभ्यां वृद्धिक्षयाभ्यां साम्यमुत्पादयति रस आरोग्याय। निमित्ततो हि क्षीणानां धातूनां वृद्धिकराहारेण रसो दृद्धिं कृखा साम्यमुत्पादयति आरोग्याय। तथा निमित्ततो वृद्धानां धातूनां क्षयकराहारेण रसक्षयं कृतारोग्याय साम्यमुत्पादयतीति । किश्चाहारस्य निमित्ततः हि क्षीणद्धानां मलानामेव ऋद्धिक्षयाभ्यामाहारमूलाभ्यां साम्यमुत्पादयत्यारोग्यायेति चकारेणानुवत्तेते। आहारो मूलं ययोस्ताभ्यां वृद्धिक्षयाभ्यामिति ; क्षीणे द्धि कारणाहारेण वृद्ध क्षयकारणेनाहारेण किट्ट मलयातूनां साम्यमुत्पादयत्यारोग्यायेति ।
प्रसादाख्यधातुभ्यो मलानां विशेषमाह-स्वमानेत्यादि । स्वमानादतिरिक्ता वृद्धा मलधातव उत्सर्गिणः शरीरानिःसरणशीलाः। स्वेदमूत्रपुरीपादयरते च शीतोष्णपायगुणैः शीतगुणमलद्धावुष्णगुणद्रव्यः संशोधनरूपचर्यमाणा उष्णगुणमलद्धौ शीतगुणद्रव्यैरुपचर्यमाणा उत्सृष्टा वहिनि मृताः शरीरधातुसाम्यकराः समुपलभ्यन्ते।
चक्रपाणिः-निमित्तत इत्यादि। निमित्तत इत्यनेन अनिमित्तेऽरियरूपे क्षयवृद्धी निराकरोति ; वृद्धिक्षयाभ्यामिति यथासंख्यं वृद्धक्षीणाहारकृताभ्याम्, एतेन आहारविशेषकृतवृद्धिक्षयो रसः साम्यं करोतीत्यर्थः ; धातुसाम्यस्यारोग्यत्वे सिद्धेऽपि यदारोग्यायेति व ते, तेन प्राकृतधातूनां क्षयेण वातिवृद्ध या वा साम्यं निराकरोति, अस्य साम्यस्य रोगकर्तृत्वादेव । किञ्च मलानामेवमेवेति, यथा रसस्तथा किटमप्यारोग्याय मलानां साम्यं प्रतिपादितं रसक्रमेण करोति । वृद्धमलानां चिकित्सान्तरमाह-स्वमानेत्यादि। उत्सर्गो वहिनिःसरणं संशोधनरूपमेषां शास्त्रोक्तमस्ति, उत्सर्ग वा वहन्तीत्युत्सर्गिणः ; वृद्धानां मलानां चिकित्सान्तरमाहशीतोष्णेत्यादि। पर्ययो विपर्ययः, तेन शीतोष्णविपरीतगुणैरित्यर्थः, तेन शीतसमुत्थे मले उष्णं तथोषणसमुत्थे शीतभुपचारो भवति ; आदिशब्दश्चात्र लुप्तनिर्दिष्टः, तेन स्निग्धरक्षादीनामपि विपरीतगुणानां ग्रहणम्. किंवा, पर्याय गुणात्मगुणाः शीनोस्निग्धरक्षातयः, तैश्च
For Private and Personal Use Only