________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२६
चरक-संहिता। विविधाशितपीतीयः दोषः संसृष्टयोनिर्विरुद्धोपक्रमो गम्भीरानुगतश्विरस्थितः प्राणायतनसमुत्थो मम्मोपघाती भूयान कष्टतमः क्षिप्रकारितमश्च सम्पद्यते। शरीराणि चातिस्थूलान्यतिकृशान्यनिविष्टमांसशोणितादीनि दुर्बलान्यसात्स्याहारोपचितान्यल्पाहाराणि
अल्पसत्त्वानि भवन्ति व्याध्यसहानि, विपरीतानि पुनर्व्याधिदपथ्यं सम्पद्यते। तबलवदपथ्यकृतः स एव दोषः खलु यथादेशकालाद्यतियोगाद भूयस्तरखापन्नापथ्यकृतो भवति। तथाविधः सन् कश्चित् संसृष्टयोनिद्वन्द्वसन्निपातव्याधेोनिर्भवति, कश्चित् तथा विरुद्धोपक्रमहेतुर्भवति, कश्चिद् गम्भीरधाखनुगः स्यात्, कश्चिचिरस्थितः स्यात्, कश्चित् प्राणायतनसमुत्थव्याधिहेतुर्भवति, कश्चिन्मौपघाती स्यात् । कश्चिद् भूयान कष्टतमः स्यात् । कश्चित् क्षिपकारितमश्च सम्पद्यते इति।
ननु कीदृशानि शरीराणि व्याधिक्षमिव समर्थासमर्थानि भवन्ति ? इत्यत आह-शरीराणि चेति । अतिस्थूलादीनि शरीराणि व्याध्यसहानि भवन्ति । अतिस्थलादिविपरीतानि तु शरीराणि व्याधिसहानि भवन्ति । तथापि सामान्यन्यायतयाऽपथ्यशक्तिबर्द्धकान्युच्यन्ते ;-रात्र देशादीनां योगादिति अनुगुणदेशादियोगात, यथा-व्रीहिः पित्तकर्तृत्वेनापथ्यः,-स चानूपदेशयोगाद भूयस्तरमपथ्यो भवति, धन्वदेशे तु हीनबलो भवति, तथा शरत्कालस्यानुगुणस्य योगात् बलवान् भवति, हेमन्ते दुर्बलः ; संयोगाद् यथा-दधिफाणितादियुक्तो बलवान्, मध्वादियुक्तश्च दुर्बलः ; वीर्याद् यथा-संस्कारोष्णीकृतो बलवान्, शीतस्तु दुर्बलः ; स एव च प्रमाणातियोगाद बली, हीनमात्रस्त्वबल इत्याद्यनुसतव्यम्। दोषतुल्यबलतामाह-स एव दोष इत्यादि। संसृष्टा मिलिता बहवो योनयः कारणानि यस्य स तथा ; किंवा, संसृष्टयोनिरित्यनुगुणदूप्यो यथा-पित्तस्य रक्त दूष्यम् असाध्यकरत्वं क्षिप्रकारित्व भवति ; विरुद्धोपक्रमो यथा--पित्तं मेहारम्भकम्, वचनं हि-त्वङ्मांसाश्रयमुत्तानं गम्भीरन्त्वन्तराश्चयम्” इति ; गम्भीरानुगत इति गम्भीरमजादिधातुगत इत्यर्थः ; चिरस्थित इति देहे चिरकालावस्थानेन कृतमूलत्वात् कष्टतमोऽसाध्यः ; प्राणायतनसमुत्थ इत्यग्रपाध्याये वक्ष्यमाणशङ्खादिदशप्राणायतनाश्रयी ; मोपघाती इति प्राणायतनव्यतिरिक्तक्षिप्रकारितमो हृदयादिमम्र्मोपघातकारी ; मर्मघातित्वेनैव मर्मविशेषप्राणायतनसमुत्थत्वे लब्धे पुनस्तद्वचनं प्राणायतनमाश्रयिणो विशेषेण कष्टत्वप्रतिपादनार्थम् ; कष्टतम इति बहुदुःखकर्तृत्वेनासाध्यत्वेन च ; क्षिप्रकारितम इत्याशुविकारकारितमः ; चकारात् संसृष्टयोनित्वादिहेतूनामरूपत्वेन कष्टकष्टतरक्षिप्रकारिव्याधिकारित्वं दर्शयति ; व्याध्यक्षामशरीराण्याह-शरीराणि चेत्यादि। अनिविशनि श्लथमांसादीनि येषां शरीराणां तानि तथा,
For Private and Personal Use Only