Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 231
________________ NERASACREASE अहो कपटपाण्डित्यं कीदृशं हरिणीदृशाम् ॥९॥ यानं लेप्यमयानङ्गमूर्तियुग दासिकोद्भुतम् । गृहीत्वान्तःपुरे वेष्टुमुपाक्रमत पण्डिता॥१०॥ दक्षैरन्तःपुराध्यक्षैः किमेतदितिनोदिता।पंडिता कपटाटोपस्फुटधाष्ट्रया जगावदः।। ॥ ११ ॥ नैवोद्याने ययौ देवी शिरोऽर्तिव्यथिता ततः । धान्येव कामदेवादिदेवताः पूजयिष्यति ॥१२॥ अत एनां स्मरमूत्ति समादाय व्रजाम्यहम् । पश्याम इति तैरुक्ते दर्शयामास तामसौ ॥१३॥ एवं द्विस्त्रिःपरामूर्तीरानीय प्रविवेश सा। कीकू प्रपञ्चचातुर्यं स्त्रीणां नैसगिकं भवेत् ॥ १४॥ यानमारोह्य वस्त्रेण समाच्छाद्य सुदर्शनम् । आरक्षास्खलिता मध्येऽवरोधं सा नयद् द्रुतम् ॥ १५॥ पुत्रि? प्राणप्रियं खीयं गृहाण स्मर-18 सोदरम् । इत्याख्यायाभयापार्श्वे सा श्रेष्ठिनममूमुचत् ॥ १६ ॥ स्फुरन्मारविकाराथ सुदर्शनमनोऽवनौ । सेक्तुं कामद्रुमं राज्ञी वितेने वाणिसारणिम् ॥१७॥ पीयूषवर्षदासत्व दिशा नाथ ? दृशा स्पृश । मदपुर्वल्लरी वेल्लन्नन्ददानंदकन्दलाम् ॥१८॥ प्रसीद वद दृष्टिभ्यां दिष्ट्या पश्य मृदुर्भव । रमख रमण ? स्वैरमङ्गमालिंग मामकम् ॥१९॥ निस्त्रिंश एष पञ्चेषुमा निघ्नन् निशितैः शरैः । दुर्धारो वार्यतामार्य! परकार्यपरायण? ॥२०॥ मा ज्ञासी: सुलभाः श्रेष्ठिन् ? मादृशो हरिणीदृशः। किं कल्पलतिका भाग्यहीनस्यौके फलत्यलम् ॥ २१ ॥ लिग्धां मुग्धां विदग्धां मां गुणाब्धि दृब्धयाचनाम् । नावमानयितुं नाथ? दाक्षिण्याम्बुनिधेऽर्हसि ॥ २२ ॥ एवं प्रकारैयाहारैरप्यक्षोभ्यमवेत्य तम् । राज्ञीषुणेव पञ्चेषोस्तत्पाणिं पाणिनास्पृशत् ॥ २३॥ हावभावविलासादिकलयन्ती मुहुमुहुः । कुब्जीभूतकुचद्वन्द्वात् सा लिलिंग सुदर्शनम् ॥ २४ ॥ वीरधानलीनात्मा न चचाल तथाप्यसौ।।

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276