Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
|णिका ततः। रूपवन्नरवार्तापि स्त्रीणामौत्सुक्यनाटिनी ॥७२॥ धर्मघोषगुरोः पार्श्वे धर्मराट् परिपार्श्विकः ।। प्रवव्राज भवोद्विग्नः सदारोऽपि सुदर्शनः ॥ ७३ ॥ सिद्धान्ताम्भोधिपारीणः संविग्नः सुदृढव्रतः । गुर्वादेशत टू एकाकी विहारं च चकार सः ॥७४॥ सोऽन्येद्युर्विहरन्नाप पाटलीपुत्रपत्तनम् । तत्र पण्डितयाऽदर्शि गणिकायै-* न्यवेदि च ॥७५॥ स्मराती देवदत्तापि तया साधुमजूहवत् । भिक्षादानच्छलात् सापि मुनिमाकारयद् द्रुतम् ॥७६॥ ऋजुभावान्महात्मापि वेश्यावेश्माविशद् वशी। द्वाः पिधाय बहुप्रार्थ्य दिनं सायं तयोज्झि च ॥७७॥ तस्थौ प्रतिमया रात्रौ पुरोद्याने सुदर्शनः। व्यन्तरीभूतया तत्राभयया च व्यलोकि सः॥७८॥ जातकोपा महाटोपात् सोपसर्गान् यथा यथा । चक्रे तथा तथा साधुानकाष्ठां समासदत् ॥ ७९ ॥ सिद्धसौधस्य निश्रेणिं क्षपकश्रेणिमुत्तमाम् । समारुरोह स मुनिरपूर्वकरणक्रमात् ॥ ८॥ शुक्लध्यानाग्निसंपर्कघातिकर्ममलक्षयात् । प्रपेदे केवलज्योतिः वर्णवच्छ्रीसुदर्शनः ॥ ८१ ॥ क्लृप्तश्रीकेवलज्ञानमहिमासौ सुरासुरैः ।। | निर्वेदजननी चक्रे भगवान् धर्मदेशनाम् ॥८२॥ तया देशनया लोका गणिकापण्डिताभयाः । प्रत्यबुध्यंत साधू | नाममोघं खलु भाषितम् ॥८३॥ सदा समाराधितजैनदर्शनः सुरासुराधीश्वरकीर्त्यदर्शनः। विकखराम्भो-15 रुहचारुदर्शनः शिवं प्रपेदेऽथ मुनिः सुदर्शनः॥ ८४ ॥ त्रिविशुद्धं मयि प्रेमास्यान्यनारी विरागतः । मुक्तिकन्येति मन्येऽस्मि परिणिन्ये सुदर्शनम् ॥ ८५॥ इत्थं श्रेष्ठिसुदर्शनस्य विलसच्छीलामक:रजामोदोन्मोदसु
२० चैत्यव.
Loading... Page Navigation 1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276