Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
चैत्यवन्दन
॥१२०॥
खितोच्चारप्रस्रवणभूमिता । ३ । अप्रमार्जितदुः प्रमार्जितोच्चारप्रस्रवणभूमिता । ४ । इत्यतिचारचतुष्टयं सूचितं, | सम्यगनुपालनम् अहोरात्रादिपौषधं कृत्वा श्वस्तनमाहारं पाचयिष्यामीति चिन्तनम् ॥५॥ अन्नाईणं सुद्धाण कप्प| णिज्जाण देसकालजुयं । दाणं जईणमुचियं गिहीण सिक्खावयं भणियं |१| व्याख्या -अस्मिन् शिक्षावतेऽङ्गी| कृते श्रावकेण पश्चातिचारा वर्जनीयाः, ते चामी-सचित्तनिक्खेवणयं वज्जइ सचित्तपिहाणयं चेव । कालाइक्कमं परववएस मच्छरीयं चेव । १। सच्चित्ते क्षेपणं सच्चित्तोपरिदेयद्रव्यस्य स्थापनं |१| पिधानं फलादिना स्थगनं |२| | कालातिक्रमदानं विहृत्य वलितानां भुञ्जानानां भुक्तवतां वा साधूनां निमन्त्रणं । ३ । परव्यपदेशोऽन्यदीयमिदं मोदकादि यथा साधवो गृह्णन्ति मदीयाभिग्रहश्च न भज्यते, इत्येतदर्थान्येतानि सर्वाणि, मत्सरः, एतेन | द्रमकेणापि दत्तं किमतोऽप्यहं हीन इति मात्सर्याद् दानम् |५| इति श्राद्धव्रतपञ्चकविषये कथापञ्चकम्, अन्यव्रतविषयातिचारविचारश्च संपूर्णः ॥ अथ बहुसावद्य वाणिज्यवर्जनमाह
बहुसावज्जं वाणिज्जमवि सया तिबलोहओ न करे । बहुलोयगरहणिजं विजाइकम्मं पि वज्जेइ ॥२२॥
व्याख्या - 'बहु सावज्जमिति' अवद्यं पापं तेन सह यद्वर्त्तते तत् सावधं सपापं बहु प्रभूतं वाणिज्यं, व्यवसायम्' अपिः समुच्चये न केवलं प्राणिवधादिकं तद्धेतुकं बहुसावद्यं वाणिज्यमपि न करोमि, कस्मात् तीव्रलोभतो महालोभाभिभूतत्वेन, यतो लोभ एव सर्वानर्थव्यापारहेतुः, तच्च बहुसावद्यं वाणिज्यं पंचदशकर्मादा
कुलकवृत्तिः
॥१२०॥
Loading... Page Navigation 1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276