Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
प्रभूतपातकहेतुत्वाद् वर्जनीयम् ॥८॥ तथा केशवाणिज्यं, हस्तिहस्तिनीतुरगतुरगीकरभकरभीमहिषमहिषीछागछागीखरखरीगोबलीव इवेसरिप्रमुखपशूनां शुककुकुटशारिकाहंस पारावतमयूरादिपक्षिणां कर्मकरकर्मकरीणां मनुष्याणां मूल्येन गृहीत्वाऽन्यत्र देशेऽन्यपार्श्वे वा लाभार्थं यद् विक्रयस्तत् केशवाणिज्यम् , एतदपि परवशत्वमिन्द्यकर्मवादिना वर्जनीयम् ॥९॥ विषवाणिज्यं, विषं स्थावरजङ्गमरूपम् , अत्र विषशब्देन शस्त्रहरितालमनः शिलाकुष्टहलयन्त्रादिजीवविघातकवस्तु गृह्यते तद्वाणिज्यं विषवाणिज्यमुच्यते, एतदपि भूरिजन्तुसंहारकारकत्वेन प्रचुरपापहेतुत्वात् परिहरणीयम् ॥ १०॥ तथा यन्त्रपीलनम् इक्षुजलतिलसर्षपैरण्डगोधूमादीनां निजगृहे लाभार्थ यत्रादिना पीलनं परपाद्वा लाभार्थ पीलनं तत् यन्त्रपीलनं तदपि च प्रचुरपापहेतुत्वेन निन्द्यकर्मत्वाच वर्जनीयम् ॥११॥ तथा निलाछनं नासावेधनांकनवर्द्धिकाकरणगोकरणकम्बलच्छेदोष्ट्रपृष्टगालनादिकं पृष्टिशोभादिहेतुकं यत् क्रियते तन्निाछनम्, एतच्च जीवकदर्थनविनाशादिसाधनत्वेन महापापहेतुत्वात् नरकादिकुगतिकारणत्वाच्च वर्जनीयम् ॥ १२॥ तथा दवदानं, व्यसनाद् गवादीनां चरणेन पुण्यार्थ वा नवहरितादिवर्द्धननिमित्तं ज्येष्ठादिमासेषु जीर्णतृणदहनार्थ यत् तत्राग्निर्दीयते, तद् दवदानं निगद्यते, यथोत्तरापथे क्षेत्रे नवतॄणार्थमिति, एतच्च मृगशृगालशशकशूकरमूषकसर्पकीटककीटिकापक्षिसिंहव्याघ्रव्यालादिकानेकजीवविघातकत्वेन पुष्कलकल्मषहेतुत्वाद् वर्जनीयम् ॥१३॥ तथा सरःशोषकर्म, शालिगोधूमयवचनकसर्षपकूरीप्रमुखाशेषधान्यविशेषसेचनार्थम्, आरामादिसेकार्थ वा अरघटादियन्त्राणां वाहनं नदीइदसरःप्रवाहचालनेन
Loading... Page Navigation 1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276