Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
| वेदी विदितौजसं मां य एवमाज्ञापयतेऽनभिज्ञः ॥ ११ ॥ ऊचेऽथ सौमित्रिरमित्रजैत्रः सिंहोदरं तर्हि रयान्नरेन्द्र ? | विमुञ्च वज्रायुधभूधवं भो ममाज्ञया नापस्थासि भावी ॥ १२ ॥ तद्वाक्यमाकर्ण्य नृपः प्रकोपकम्पिष्टदन्तच्छदपल्लवोऽलम् । भोः कद्वदं दूतममुं दुराशं स्राग हन्त हन्तेति भटानभाणीत् ॥ १३ ॥ रामानुजः स्माह महीश ? | माधाः पूत्कारमत्रास्ति न वज्रकर्णः । कण्डूलता चेद्भवतोऽस्ति दोष्णोः संनह्यतां तर्हि रणाय तूर्णम् ॥१४॥ वाक्येन तेनातिरुषा दिदीपे हव्येन हव्याश इवावनीशः । वृतः प्रवीरैर्जयकुञ्जरस्थः क्षणाड् डुढौके च महाहवाय ॥ १५ ॥ कृतान्यभूभृच्छ्रवणज्वराणि संग्रामतूर्याणि वराणि रेजुः । केचित् तदीयत्पुलकाः प्रवीरा वितेनिरे के| शरिनादमुच्चैः ||१६|| केचिद् भटा उत्कटलोहकंकटाः खपाणिपद्माकलिता सियष्टिकाः । विरेजिरे संगर संगरास्तडिल्लताञ्चिताः प्रावृषिका इवाम्बुदाः ॥ १७ ॥ केषां भटानां तु करे विरेजुः प्रासाः प्रकाशाः सुतरामुदस्ताः । | प्रेताधिपेनेव जिघत्सुनामी प्रसारिता अग्ररदा इव खे ॥१८॥ धनुष्कटङ्काररवेण तन्वन् बाधिर्यमाजी सुभटस्तु कश्चित् । छत्रं तिदण्डं शरधोरणीभिः सौमित्रमौलौ रचयांचकार ॥ १९ ॥ कश्चित् कुठारं निशिताग्रधारं | लात्वाभ्यमित्रं सुभटोऽभिधावन् । मार्गेऽनुगर्त्तं स्खलितः पतंश्च हतः खशस्त्रेण ययौ यमौकः ॥ २०॥ प्रसर्पि| पांशुस्थगिताक्षियुग्मः कश्चिद् भटो मुद्रपाणिरारात् । अरिभ्रमान्मुद्गरमन्तरिक्षे व्यापारयन्नाप परोपहासम् ॥ | ॥ २१ ॥ कलङ्कशङ्कारहितां चिरार्जितां कीर्त्तिप्रियां मा स्म हरन्ममापरः । इत्याशयात् कश्चिदयुरञ्जसा सैन्यस्य | नासीरपदं प्रपन्नवान् ।। २२ सिंहोदरोधीघर सैन्यमेवं संख्योन्मुखीनं समवेक्ष्य दक्षः । रामानुजः पङ्कजनाल
* * *
Loading... Page Navigation 1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276