Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
णिज्जेसु कजेसु, इति गाथार्थः ॥२६॥ अथोत्सूत्रप्ररूपकनानाचार्यमतान्तरादिश्रवणश्रद्धान विधान निषेधमाह-- | नाणायरियाण मयंतराणि सुत्तुत्तजुत्तिवज्झाणि। सोऊण कुसत्थाणि य मन्नामि य दुक्खजणगाणि २७ । व्याख्या--नाणायरियाणमिति, नानाचार्याणां चैत्यवासिप्रभृतिप्रभूतनामाचार्याणां 'मतान्तराणि' कदाग्रहरूपाणि, देवगृहवासदेवद्रव्यभक्षणयतिदेवपूजाश्रावकमुखवस्त्रिकास्थापनाचार्यप्रतिक्रमणदेवाग्रबलिप्रदानारत्रिकमांगलिक्यादिप्रतिषेधनयतिप्रासुकशीतलजलादानगलनकग्रहणनिवारणजातसूतकमृतकसूतकरजकतन्तुवायादिनीचजातिसक्तवस्त्रपात्रभक्तपानकखादिमस्वादिमरूपचतुर्विधाहारग्रहणपर्वतिथिकल्याणिकतिथिवर्जित| तिथिपोषधग्रहणप्रमुखसिद्धान्तोक्तियुक्तिबाह्यधर्मकृत्यकरणकारणानुमतिरूपाणि कीदृशानि तानि 'सुत्तोत्तजुत्तिवज्झाणि' सूत्रोक्ता या युक्तयस्ताभ्यो बाह्याणि, यथा चैतानि सूत्रोक्तयुक्तिवाद्यानि तथोच्यते--'दुन्भिगन्धमलस्सावि तणुरप्पेस न्हाणिया । उभओ वाउवहो चेव ते नटुंति न चेहए ॥१॥ इत्यादिना यतेश्चैत्ये प्रभूतकालमवस्थानमपि निरस्तमस्ति किं पुनर्नित्यवासनिरासस्य भणितव्यम् , अन्नहूँ पगडं लयणं भइन्ज सयणासणं । उच्चारभूमिसंपन्नं इत्थीपसुविवज्जियं ॥१॥ इत्यादि दशवैकालिकादिसिद्धान्ताक्षरैर्यतीनां वसतिवासस्यैव भणनात् , जिणपवयणवुद्धिकरं पभावगं नाणदंसणगुणाणं । भक्खंतो जिणदवं अणंतसंसारिओ होइ ॥१॥ चेइयवं साहारणं च जो दुहइ मोहियमईओ। धम्मं वि सो न याणइ अहवा वद्धाउओ नरए ॥२॥ चेइय
Loading... Page Navigation 1 ... 267 268 269 270 271 272 273 274 275 276