Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 247
________________ नरूपं कर्म आदीयते निबध्यत एभिर्जीवैरिति कृत्वा, अतः कांदानखरूपमुच्यते, तत्र प्रथममङ्गारकर्म काष्ठानि दग्ध्वा अङ्गरान् कृत्वा आजीविकाकृते विक्रीणाति तेन जीवतीति तदङ्गारकर्म, तत्र अङ्गारकरणे षड्जीवनिकायविघातसंभवात् तद्बर्जनम् , एवमन्यानि वह्निसाध्यारम्भाणि महासावद्यानि भ्राष्ट्रकरणेष्टिकापाककुम्भकारवठठाकारत्वलोहकारत्ववर्णकारत्वत्रपुताम्रभाजनादिकरणविक्रयार्थवस्त्रप्रक्षालनोत्कालनरङ्गानादीनि कर्माणि आजीविकाहेतोवर्जनीयानि ॥१॥ तथा वनकर्म, अत्र वनशब्देन वृक्षादय उच्यन्ते, तेषां छित्त्वा छित्त्वा मूलस्कन्दशाखाप्रशाखात्वपत्रपल्लवपुष्पफलादीनि गृहीत्वा मूल्येन लाभार्थ विक्रीणाति तेन जीवति तदनकर्म वनजीवकोच्यते, सा च बहुजीवविनाशहेतुत्वेन बहुपापहेतुकत्वात् कुष्ठादिनानारोगदारिद्यादिदुःखहेतुकत्वाच परिहरणीया ॥२॥ तथा शकटकर्म, शकटानां तदङ्गानां चक्रधुरायुगशवलेषा उपलतुल्यायतकादीनां लाभार्थं यद् घटनं, तथा मार्गे लाभार्थं खेटनं, तथा तेषां लाभार्थं विक्रया, सा शकटजीविका, सा च गवादीनां बधबन्धनादिदोषसंभवत्वेन चक्राधोमाग्र्गे च नानात्रसजीवविनाशसंभवेन चानल्पपापहेतुकत्वात् वर्जनीया, ॥३॥ तथा भाटककर्म, शकटबलीवईकरभमहिषतुरगाश्वतरखरग्रन्थिधारकवाहित्रकवाहिकैः कृत्वा मूल्येन भाटकं गृहीत्वा खजीविकाकृते भारं वाहयन्ति, परेषां भाण्डानि | देशान्तरेषु भाटकेन प्रापयन्ति, अन्येषां च वाहनार्थ भाटकेन समर्पयन्ति यत् सा भाटकजीविका, एषा च नानाजीवविनाशहेतुकत्वेन बहुपापहेतुकत्वानिन्धकर्मत्वाच वर्जनीया, ॥४॥तथा स्फोटिकाकर्म, सर कूप

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276