Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
पवयणसाहम्मीणमित्यादि, प्रवचनेन जिनप्रणीतचरणेन साधम्मिकाणां समानधर्मयुक्तानां करोमि विदधामि, वात्सल्यं वत्सलत्वं कथमविकल्पम् अयं मे खजनोऽयं मे मित्रमयं सुगुणोऽयं निर्गुण इत्यादिविकल्परहितं, यदुक्तम्-इदं दर्शनसर्वखमिदं दर्शनजीवितम् । प्रधानं दर्शनस्येदं वात्सल्यं समधर्मसु ॥१॥ वात्सल्यादस्थिरा धर्मे स्थिरतां यान्ति जन्तवः । पूर्वमेव स्थिरा ये तु स्युस्ते स्थिरतमाः पुनः॥२॥ तथा खपुत्रमित्रकलत्रादिबन्धुभ्योऽपि साधर्मिकेषु लेहबन्धः प्रचुरतरो विधेयः, यत उक्तं-साहम्मियाओ अहिओ वंधुसु याईसु जाण अणुराओ । तेसिं न हु सम्मत्तं विन्नेयं समयनीईए ॥१॥ तथा ये भिन्नभिन्नजातयो भिन्नदेशसंभूतयो भवन्ति, ते जिनधर्मप्रपन्नाः परस्परं बान्धवा एव तथा चोक्तम्-अन्नन्नदेसजाया अन्नन्नदेसवड्डियसरीरा । जिणसासणं |पवन्ना सन्चे ते बंधवा भणिया ॥१॥ तम्हा सबपयत्तेण जो नमुक्कारधारओ । सावगो सो वि दहश्वो जहा| परमवंधवो ॥२॥ एषां साधम्मिकाणां पृथग् देशसंस्थितानां ज्ञानादिगुणसंस्थितानां वात्सल्यं पट्टांशुकचीनांशुकादिप्रभूतभेदभिन्नप्रधानाच्छादनैः सखण्डखाद्यमोदकादिपक्वान्नकलमशालिदालिप्रमुखप्राज्यभोज्यैः द्राक्षाशर्करादिभूरिभङ्गकपानकैश्च द्राक्षावर्षोपलरम्भाफलसहकारादिमखादिमैश्च कर्पूरकस्तूरिकादिवासवासितखदिरसारवटिकामिश्रताम्बूलपूगीफलैलालवंगप्रभृतिचङ्गखादिमैश्च कर्त्तव्यं, तथा चोक्तम्-अन्नन्नदेसाण समागयाणं अन्नन्नजाईसु समुम्भवाणं । साहम्मियाणं गुणसंढियाणं तित्थंकारणं वयणे ठियाणं ॥१॥ वच्छेहिं
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276