Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 61
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। दद साधोऽजरामाजरामाभी रहितोऽमल । रम तो हितकृत्सार रसास्पृहृदयेऽपर ॥ १७ ॥ शङ्खः ॥ १४ ॥ दह पापं विशां ध्येय नित्यं मुमुक्षुरादुर । ललन्कंकलरम्भाद दभारं शंकरः सक ॥ १८ ॥ त्रिशूलम् ॥ १५॥ ददं भन्दवदं सकृद्गुरुं भजत मामकम् । कल्पकल्पं कर्मकर्ष कजकमकरं कमम् ॥ १९ ॥ चामरम् ॥ १६ ॥ छत्रम् ॥ १३ ॥ हे साधो, त्वं रसास्पृशां नृणां हृदयं रसास्पृग्घृदयं तस्मिन् रम इति संबन्धः । हे दद ददातीति ददस्तत्संबोधनम् । हे अजर न विद्यते जरा यस्य तत्संबोधनम् । हे अमाज न विद्यते माजः कन्दो यस्य तत्संबोधनम् । कीदृशस्त्वम् । रामाभिः स्त्रीभिः रहितः, यद्वा त्वं कीदृशः । जरामाजरामाभीरहित: जरा च माजश्व रामाश्च ताभिः । परवलिङ्गम् । हे अमल न विद्यते मल: कर्मरूपो यस्य तत्सं. बोधनम् । पुनः कीदृशस्त्वम् । तः सुवेषः । 'तः सुवेषो मता नारी' इत्येकाक्षरानेका. र्थनामकोशे । पुनः कीदृशस्त्वम् । हितं करोतीति हितकृत्, हे सार हे श्रेष्ठ, हे अपर न विद्यते पराः शत्रवो रागद्वेषादयो यस्य तत्संबोधनम् ॥ १७ ॥ शङ्कः॥ १४॥ हे मुमुक्षुरादुर मुमुक्षुराज्ञां मध्ये वर श्रेष्ठ, हे ध्येय ध्यातुमर्ह, वं विशा पापं दह । कथम् । नित्यम् । हे ललन्कंकलरम्भाद ललतीति ललन् तच्च तत्कं च ललन्कं तदेव कलरम्भा मनोज्ञकदली तां ददातीति तत्संबोधनम् । अरं अत्यर्थ दभ दं दानं तेन भातीति दभस्तत्संबोधनं हे शंकर, हे सक सह केन सुखेन वर्तत इति सकस्तत्संबोधनम् ॥ १८॥ त्रिशूलम् ॥ १५॥ भो जनाः, यूयं सकृदपि अपीति गम्यम् । आस्तामनेकवारं एकवारमपि ममेदं मामकं गुरुं हिताहितोपदेशकं भजत सेवत । कीदृशम् । ददातीति ददस्तम् । 'ददातिदधात्योर्विभाषा' इति शस्तम् । पुनः कीदृशम् । भन्दं कल्याण वदतीति भन्दवदस्तम् । 'भन्दं कल्याणे सौख्ये च' इति हैमानेकार्थकोशः । पुनः कीदृशम् । कल्पकल्पं कल्पो देवभूरुहस्तत्सदृशः कल्पकल्पस्तम् । 'ईपदपरिसमाप्तौ कल्पदेश्यदेशीयरः' । पुनः कीदृशम्। कर्माणि कषति हिनस्तीति कर्मकषस्तम् । पुनः कीदृशम् । कजकम्रकर कजं पद्मं तद्वत्कम्रो कमनीयौ करौ हस्तौ यस्य तम् । पुनः कीदृशम् । कम कं सुखं मयते प्रतिददातीति । मेङ् प्रणिदाने' इति वचनात् । यद्वा कस्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183