Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 119
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । छायां संततशीतलां विरचयंश्चण्डांशुतप्ताङ्गिनां सौजन्यं तरुराज भो प्रथय यत्ते रत्नगर्भा प्रसूः ॥ ३३ ॥ छायासुप्तमृगः शकुन्त निवधैर्विष्ठाविलिप्तच्छदः कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः । विश्रब्धं मधुपैर्निपीतकुसुमः श्लाध्यः स एकस्तरुयत्राङ्गीकृतसत्त्वसंप्लवभरे भग्नापदोऽन्ये द्रुमाः ॥ ३४ ॥ गतास्ते विस्तीर्णस्तवकभरसौरभ्यलहरी परीतव्योमानः प्रकृतिगुरवः केऽपि तरवः । start संप्रत्यह परिशिष्टाः क्रमवशा दमी वल्मीकाद्या भुजगकुललीलावसतयः ॥ ३५ ॥ हो पान्थ किमाकुलः श्रमवशादत्युन्नतं धावसि प्रायेणास्य महाद्रुमस्य भवता वार्तापि नाकर्णिता । मूलं सिंहसमाकुलं तु शिखरं प्रोद्दण्डतुण्डाः खगा मध्ये कोटरभाजि भीषणफणाः फूत्कुर्वते पन्नगाः || ३६ ॥ शाखाभिर्विततीभविष्यति दलैस्तेजांसि तिग्मधुते रन्तर्धास्यति यास्यतीह मधुपश्रेणी रसं कौसुमम् । अध्वन्यान्सुखिनः करिष्यति फलैर्यत्रेयमाशाभव त्सोऽयं मार्गतरुर्हहा विधिवशादग्धो दवार्चिष्मता ॥ ३७ ॥ तीव्र निदाघसमय बहुपथिकजनश्च मारवः पन्थाः । मार्गस्थस्तरुरेकः कियतां संतापमपनयति ॥ ३८ ॥ मार्ग विहाय गिरिकन्दरगह्वरेषु वृक्षाः फलन्ति यदि नाम फलन्तु किं तैः । शाखामजानि कुसुमानि फलानि मार्गे गृह्णन्ति यस्य पथिकास्तरुरेष धन्यः ॥ ३९ ॥ आयान्ति त्वरितं गभीरसरितां कुलेषु भूमीरुहा मूलेषु व्यथिता निदाघपथिकाः कृत्यं तदेषां परम् । For Private And Personal Use Only १११

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183