Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 134
________________ Shri Mahavir Jain Aradhana Kendra १२६ www.kobatirth.org काव्यमाला | मदीयस्त्वाधिक्यान्न भवति विमर्दे क्षममिदं नचान्येभ्यो रूपे भवति कुसुमेभ्योऽधिकतरम् । प्रसूनं मालत्यास्तदपि हृदयाहादकरण प्रवीणैरामोदैर्भवति जगतां मौलिनिलयम् ॥ १४६ ॥ Acharya Shri Kailassagarsuri Gyanmandir मा मालति ग्लायसि यद्यवद्यतुम्बीप्रसूने भ्रमरं समीक्ष्य । प्राणी चतुर्भिश्चरणैः पशुश्चेत्स षट्पदः सार्धपशुः कथं न ॥ १४७॥ भवति - हृदयहारी कोsपि कस्यापि हेतुर्न खलु गुणविशेषः प्रेमबन्धः प्रयोगे । किसलयितवनान्ते कोकिलालापरम्ये विकसति न वसन्ते मालती कोऽत्र हेतुः ॥ १४८ ॥ कुसुमस्तबकैर्नम्राः सन्त्येव परितो लताः । तथापि भ्रमरभ्रान्ति हरत्येकैव मालती ॥ १४९ ॥ इति मालत्यन्योक्तयः । अथ वालकस्य । मुत्तू पत्तनियरं जडाण निय परिमलं समप्पन्तो । सहसुम्मूलणदुक्खं वालय बालोऽसि किं भणिमो ॥ १५० ॥ अथ केतक्यन्योक्तयः । केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते । दोषाः किंनाम कुर्वन्ति गुणापहृतचेतसाम् ॥ १५१ ॥ रोलम्बस्य चिराय केतकपरिष्वङ्गेष्वभङ्गो रसः सुज्ञातं बत केतकस्य च मनो भृङ्गप्रसङ्गोत्सुकम् । जानात्येव मिथोऽनुरागमनयोः सर्वोऽपि नैसर्गिकं प्रत्यूहाय दलेषु धिक्समभवन्मर्माविधः कण्टकाः ॥ १५२ ॥ पत्राणि कण्टकशतैः परिवेष्टितानि वार्तापि नास्ति मधुनो रजसोऽन्धकारः । आमोदमात्ररसिकेन मधुत्रतेन नालोकितानि तव केतकि दूषणानि ॥ १५३ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183