Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
काव्यमाला।
अथ विजयायाः। विजया गुणाणमूलं तरुअरमब्भम्मि उब्भओ हत्थो। अत्थय कोइ समत्थो मुं सत्थिं पल्लए बत्थो । २३४ ॥
अथ तमाकोः। भ्रातः कस्त्वं तमाकू सुहृदिह गमनं ते कुतोऽम्भोधिपारा
कस्य त्वं दण्डधारी न हि तव विदितं श्रीकलेरेव राज्ञः । चातुर्वर्ण्य विधिविरचितं भिन्नभिन्नैकभूतमेकीकर्तुं जगति सकले शासनादागतोऽस्मि ॥ २३५ ॥
अथ लशुनस्य । कर्पूरधूलीरचितालवाल: कस्तूरिकाचर्चितदोहदश्रीः । क(का)श्मीरनीरैरभिषिच्यमानः प्राच्यं गुणं मुञ्चति किं पलाण्डः ॥२३६॥
अथ कर्पासान्योक्तयः। नीरसान्यपि रोचन्ते कर्पासस्य फलानि नः । येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ २३७ ॥ श्लाघ्यं कर्पासफलं यस्य गुणै रन्ध्रपिहितानि ।
मुक्ताफलानि तरुणीकुचकलशे सुष्ठु विलसन्ति ॥२३८॥ निष्पेषोत्थमहाव्यथा परतरं प्राप्तं तुलारोहणं
ग्राम्यस्त्रीनखलञ्चनव्यतिकरस्तन्त्रीप्रहारव्यथा। मातङ्गोज्झिततुण्डवारिकणिकापानं च कूर्चाहतिः कर्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥२३९॥
इति कर्पासान्योक्तयः। ____ अथारिष्टस्य । निक्षे(क्षि)प्योष्णजले त्वचं तव परित्वक्षन्ति ये निष्कृपा
स्तेषामप्युपकुर्वतांशुकमलप्रक्षालनादुच्चकैः । उत्कीर्णैरपि तन्तुभिर्निगदि(लि)तैरप्यस्थिभिः प्राणिनां
चक्षुर्दोषहृता सतां धुरि धृतारिष्ट त्वयैव स्थितिः ॥ २४०॥
For Private And Personal Use Only

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183