Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 148
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। वेश्मानि च्छादयद्यजलधरसमये शीतकाले निदाघे पानीयस्फीतशीतातपनिबिडतमोपद्रवान्सपिनष्टि । पावित्र्यं च प्रवीणा विदधति वदने येन सु(भु)क्तिक्रियान्ते तेनाकिंचित्करत्वे नरमुपमिमते वीरणेनानभिज्ञाः ।। २४७ ॥ अध्यासीनाश्ववारैरुपजनितभये हेषमाणैस्तुषारै गर्जत्स्फूर्जन्महौजोत्कटकरटिघटाकोटिभिर्दुष्प्रवेशे । सङ्ग्रामे कल्पकल्पेऽप्यरिजनविसरैर्मार्गणश्रेणिबद्धे बध्येऽवध्ये नृपेऽपि प्रभवति यवसं प्राणविश्राणनाय ॥२४८॥ यस्यैवाहारयोगाज्जगति सुरभयोऽजान्विता वा महिष्यः __ सर्वाः संप्राप्तभूयो वपुरुपचितिका आज्यदध्नो निदानम् । क्षीरं लोकाय दधुः सकलरसमहायोनिभूतं तृणं त जाने जानन्त एते धिगखिलकवयो नीरसं वर्णयन्ति ॥२४९॥ उत्तुङ्गैस्तरुभिः किमेभिरखिलैराकाशसंस्पर्धिभि धन्योऽसौ नितरामुलपविटपी नद्यास्तटेऽवस्थितः । एवं यः कृतबुद्धिरुद्धतजलव्यालोलवीचीवशान्मजन्तं जनमुद्धरामि सहसा तेनैव मज्जामि च ॥ २५० ॥ रूढस्य सिन्धुतटमुपगतस्य तृणस्यापि जन्म कल्याणम् । यत्सलिलमजदाकुलजनहस्तालम्बनं भवति ॥ २५१ ॥ इति तृणान्योक्तयः । अथ ताम्बूलान्योक्तिः। वल्लीनां कति न स्फुरन्ति परितः पात्राणि किं तैरिह स्निग्धैरप्यतिकोमलैरपि निजामेवाश्रयद्भिः श्रियम् । तानेव स्तुमहे महाजनमुखश्रीकारिजन्मव्रतान्यान्सूते नवरागनागरमुखांस्ताम्बूलवल्लीछदान् ॥ २५२ ॥ अथ तुम्ब्यन्योक्तयः । एके भेजुर्यतिकरगतास्तुम्बिकाः पात्रलीलां गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलमाः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183