Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 150
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ काव्यमाला । नमाम्यहं महावीरं दयावन्तं जिनेश्वरम् । सूरवत्तेजसां पूरं रिक्तं पापैः शिवंकरम् ॥ ४ ॥ सेवितं साधुनिःस्फारं वर्यातिशयभासुरम् । कल्याणाचलवद्धीरं हंसगत्या मनोहरम् ॥ ५ ॥ सर्वधर्मोपदेष्टारं विशिष्टज्ञानमन्दिरम् । जराभीरुविजेतारं यत्याचारकतत्परम् ॥ ६ ॥ (चतुर्भिः कलापकम् ।) स्वगुरुनामगर्भितं कर्तृनामगर्भितं च षोडशदलकमलबन्धचित्रम् । श्रीगौतमगणाधीशसमानमहिमालयम् । विजयानन्दसूरीन्द्रं शंकरं समुपास्महे ॥ ७ ॥ अथ प्रतिद्वारवृत्तानि । अथाष्टमपरिच्छेदे प्रतिद्वारस्य पाटिकाम् । प्राज्ञप्रीतिप्रदे(दां) वच्मि हृद्यपद्यपदैः स्फुटम् ॥ ८ ॥ तत्रान्योक्तिषु विज्ञेया बुद्धिबोधविवृद्धये । मरुस्थलीभवान्योक्तिः संकीर्णान्योक्तयः पुनः ॥ ९ ॥ ___ अथ मरुस्थलान्योक्तयः। मरौ नास्त्येव सलिलं कृच्छ्राद्यद्यपि लभ्यते । तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम् ॥ १० ॥ पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गमङ्गं भूयो भूयः कुरु कुरु सखे मज्जनानि(?)नितान्तम् । एषा शेषश्रमशमपटुर्दुःखिताध्वन्यबन्धुः सिन्धुदूरीभवति भवतो मारवः पान्थ पन्थाः ॥ ११ ॥ भो भो किमकाण्ड एव पतितस्त्वं पान्थ कान्या गति स्तत्तादृक् तृषितस्य ते खलमतिः सोऽयं जलं गूहते । आस्थानोपगतामकालसुलभां तृष्णां प्रतिक्रुध्महे (१) त्रैलोक्यप्रथितप्रभावमहिमा मार्गो ह्यसौ मारवः ॥ १२ ॥ १, वचिधातुना वर्तमानाविभक्तरुत्तमपुरुषैकवचनारूढेनाहमिति कर्तृपदं सूचितम्. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183