________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
काव्यमाला ।
नमाम्यहं महावीरं दयावन्तं जिनेश्वरम् । सूरवत्तेजसां पूरं रिक्तं पापैः शिवंकरम् ॥ ४ ॥ सेवितं साधुनिःस्फारं वर्यातिशयभासुरम् । कल्याणाचलवद्धीरं हंसगत्या मनोहरम् ॥ ५ ॥ सर्वधर्मोपदेष्टारं विशिष्टज्ञानमन्दिरम् । जराभीरुविजेतारं यत्याचारकतत्परम् ॥ ६ ॥
(चतुर्भिः कलापकम् ।) स्वगुरुनामगर्भितं कर्तृनामगर्भितं च षोडशदलकमलबन्धचित्रम् ।
श्रीगौतमगणाधीशसमानमहिमालयम् । विजयानन्दसूरीन्द्रं शंकरं समुपास्महे ॥ ७ ॥
अथ प्रतिद्वारवृत्तानि । अथाष्टमपरिच्छेदे प्रतिद्वारस्य पाटिकाम् । प्राज्ञप्रीतिप्रदे(दां) वच्मि हृद्यपद्यपदैः स्फुटम् ॥ ८ ॥ तत्रान्योक्तिषु विज्ञेया बुद्धिबोधविवृद्धये । मरुस्थलीभवान्योक्तिः संकीर्णान्योक्तयः पुनः ॥ ९ ॥
___ अथ मरुस्थलान्योक्तयः। मरौ नास्त्येव सलिलं कृच्छ्राद्यद्यपि लभ्यते ।
तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम् ॥ १० ॥ पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गमङ्गं
भूयो भूयः कुरु कुरु सखे मज्जनानि(?)नितान्तम् । एषा शेषश्रमशमपटुर्दुःखिताध्वन्यबन्धुः
सिन्धुदूरीभवति भवतो मारवः पान्थ पन्थाः ॥ ११ ॥ भो भो किमकाण्ड एव पतितस्त्वं पान्थ कान्या गति
स्तत्तादृक् तृषितस्य ते खलमतिः सोऽयं जलं गूहते । आस्थानोपगतामकालसुलभां तृष्णां प्रतिक्रुध्महे (१)
त्रैलोक्यप्रथितप्रभावमहिमा मार्गो ह्यसौ मारवः ॥ १२ ॥ १, वचिधातुना वर्तमानाविभक्तरुत्तमपुरुषैकवचनारूढेनाहमिति कर्तृपदं सूचितम्.
For Private And Personal Use Only