________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
एके केचित्सुगुणग्रथिता दुस्तरं तारयन्ति
केषामन्ये ज्वलितहृदया रक्तमन्ये पिबन्ति ॥ २५३ ॥ सर्वास्तुम्ब्यः समकटुरसास्तुम्बिवल्लिप्रसूता
स्तासां बद्धा अपि कतिपया दुस्तरं तारयन्ति । शब्दायन्ते सरसमपराः शुष्ककाष्ठे निषण्णा
स्तन्मध्येऽन्या ज्वलितहृदयाः शोणितं संपिबन्ति ॥ २५४ ॥ पिच्छसहीतुम्बणिया भूर्यमुत्तूण निम्बमारुहिया । एयाए न हुहुत्तं सरिसा सरिसेहिं रच्चन्ति ॥ २५५ ॥
इति तुम्व्यन्योक्तयः
१४१
अथ कारेल्याः ।
रे कालि हया से चडिया निम्बम्मि पायवे पउरे अहवा तुज्झ न दोसो सरिसा सरिसेहिं रच्चन्ति ॥ २५६ ॥ अथ कोहलिन्याः ।
पत्तावरिओ बहुसहसाहिओ पिच्छिऊण मारुहसु । कोहलिणि किं न याणसि परण्डो तुह भरं सहइ ॥ २५७ ॥ इति श्रीमत्तपागच्छाधिराजश्री गौतम गणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारकवृन्दारक राजपरमगुरु भट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणि समुचितायामन्योक्तिमुक्तावल्यां वनस्पतिकायिकान्योक्तिनिरूपकः सप्तमः परिच्छेदः ॥
अष्टमः परिच्छेदः । जय श्री सौख्य संतान सर्वसम्पत्तिदायिने । नमोऽस्तु भुजगाधीशध्वजाय परमेष्ठिने ॥ १ ॥ विदिताखिलसद्वस्तुसार संसारतारक । करुणाकर मां पार्श्व सौम्यदृष्ट्या विलोकय ॥ २ ॥ श्रीसंयुक्तं गुणागारं विश्वव्यापियशोभरम् । जनानां जयदातारं योकरं व्रतिनां वरम् || ३ || १, यां लक्ष्मी करोतीति तम्.
For Private And Personal Use Only