Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 161
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५३ अन्योक्तिमुक्तावली। दंष्ट्रायां चतुरर्णवोर्मिफ्टलैराप्लावितायामिदं (1) यस्या एव शिशोः स्थिता विपदि भूः सा पोत्रिणी पुत्रिणी ॥९॥ शतपदी शितपादशतैः क्षमा यदि न गोष्पदमप्यतिवर्तितम् । किमियता द्विपदस्य हनूमतो जलनिधेः क्रमणे निवदामहे ॥९७॥ वृक्षान्दोलनमद्य ते क नु गतं धर्मस्थयूथस्य वा __ यूकान्वेषणरोषसौख्यबहुलाश्चेष्टा मुखोत्थाः क ताः । कारण्ये फलपूर्णगल्लकुहरस्यान्येषु ता भीषिका __ भीतः संप्रति कौशिकाद्गलचलव्यालः कपे नृत्यसि ॥ ९८ ॥ स्पर्धन्तां सुखमेव कुञ्जरतया दिक्कुञ्जरैः कुञ्जरा आम्या वा बनवासिनो मदजलपखिन्नगण्डस्थलाः । आः कालस्य कुतूहलं शृणु सखे प्राचीनपालीमलाखादस्निग्धकपोलपालिरधमः कोलोऽपि संस्पर्धते ॥ ९९ ॥ आकर्ण्य गर्जितरवं घनगर्जितुल्यं सिंहस्स यान्ति वनमन्यदिभा भयार्ताः । तत्रैव पौरुषनिधिः खकुलेन साधै दर्पोद्भुरो वसति वीतभयो वराहः ॥ १०० ॥ इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणघरोपमगुणसमाजसकलभधारकवृन्द. वृन्दारकवृन्दारकपरमगुरुभधारकश्री १९श्रीविजयानन्दसूरिशिष्यभुजिध्यपण्डितहंसविजयगणिसमुच्चित्तायामन्योक्तिमुक्तावल्यां मरुस्थलान्योक्तिसंकीर्णान्योक्तिनिरूपकोऽष्टमः परिच्छेदः ॥ ___ अथ प्रन्थप्रशस्तिः । आसीजगद्गुरुरिति प्रथित्ताबदातः श्रीहीरहीरविजयायसूरिशक्रः । योऽकब्बरक्षितिपतेर्हृदयालवाले ऽध्यारोपयत्खलु कृपाव्रततिं व्रतीशः ॥ १॥ तत्पट्टमन्दरमहीथरनिर्झरद्रुः सूरीश्वरो विजयसेनगुरुर्बभूव । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183