Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली । जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो
दूरे पुंसां वपुषि रचना पङ्कशङ्कां करोति । यद्यप्येवं सकलसुरभिद्रव्यगर्वापहारी
को जानीते परिमलगुणः कोऽपि कस्तूरिकायाः ॥ ८१ ॥ कस्तूरीति किमङ्गसांपरिमलद्रव्यं किमप्यामरं
पेया कि नहि कीदृशी मृगदृशां शृङ्गारलीलास्पदम् । धार्या कुत्र कुचस्थलीषु कुचयोः स्थौल्यं ततो हीयते क्लिष्टः क्लिश्यति पक्कणैश्च बहुशः कस्तूरिकाविक्रयी ।। ८२ ॥
कर्पूर रे परिमलस्तव मर्दितस्य __ श्रीखण्ड रे परिमलस्तव घर्षितस्य । रे काकतुण्ड तव वह्रिगतस्य गन्धः
कस्तूरिका खयमथाधितगन्धदृष्टा ॥ ८३ ॥ जनिस्थानं सिन्धुः सकलजलजस्यास्पदमहो
सुधालक्ष्मीचन्द्रत्रिदशपतिवैद्यप्रभृतयः । अमी सोदर्यास्ते त्रिनयनगले वास वसुधा तथापि त्वं हालाहल निजगुणान्मुञ्चसि न किम् ।। ८४ ॥ नद्याश्रयस्थितिरियं तव कालकूट
केनोत्तरोत्तरविशेषपदप्रतिष्ठा । 'प्राङ्गणस्य हृदये वृषलक्ष्मणोऽथ
कण्ठे पुनर्वससि वाचि ततः खलानाम् ॥ ८५ ॥ कौस्तुभमुरसि मुरारेः शिरसि शशी द्योतते पुरां जयिनः । तनुजन्मानौ जलधेर्जग्मतुरियतीं गतिं पश्य ॥ ८६ ॥ तुल्यं भूभृति जन्म तुल्यमुभयोर्मूल्यं च तुल्यं वपु
स्तुल्यं दाळमुदअटङ्कदलनं तुल्यं च पाषाणयोः । एकस्याखिलवन्दनाय विधिना देवत्वमारोपितं
तवारे विहिता परस्य तु पदाघातास्पदं देहली ॥ ८७ ।।
For Private And Personal Use Only

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183