Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 157
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । रक्षापात्रगतं स्नेह प्रदीपश्रीविवर्धनम् । भविष्यति विना तेन भस्मत्वं भवतो गुणाः ॥ ६३ ॥ तिग्मांशोः किरणैरतीव सहितो गाढप्रताप महा नारैरपि भर्जनं च तलनं तैले कटाहस्थिते । हो पर्पट सांप्रतं परजनस्यार्थे सहे यत्त्वया दंष्ट्रान्तः पतितेन गाढरटितं धिग्लज्जितास्तद्वयम् ॥ ६४ ॥ कोहि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण । तप्तं विकृतं मथितं केवलमुद्गिरति यत्स्नेहम् || ६५ || दृढतरगलक निबन्धः कूपनिपातोऽपि कलश ते धन्यः । यज्जीवनदानैस्त्वं तर्पामर्ष नृणां हंसि ॥ ६६ ॥ कुद्दालेन विदारणं किमपरं कष्टं खरारोहणं यत्पापिष्ठकुलालपादहननं चक्रभ्रमस्तादृशः । दाघो मे दहनस्य पीडयति तनुं सर्व सहामो वयं ग्राम्यस्त्रीकरताडनं विधिपरं पर्यन्तदुःखायते ॥ ६७ ॥ गुणयुक्तोऽप्यो यातिरिक्तकुम्भ इव स्फुटम् । पूर्णो गुणविहीनोऽपि जनैः शिरसि धार्यते ॥ ६८ ॥ सद्वृत्तोऽपि सुपूर्णोऽपि विदग्धो रागवानपि । गृहीतुं शक्यते केन पार्थिवः कर्णदुर्बलः ॥ ६९ ॥ यत्सद्गुणोऽपि सरोऽपि तटस्थितोऽपि वंशोतोऽपि विदधाति नृशंसकर्म । वक्रात्मनो बडिशदण्ड तदेतदस्य जानामि संगतिफलं तव कण्टकस्य ॥ ७० ॥ कम्बाघातैर्वपुषि निहतैरुच्छलच्छोणितौघैः कारागारैर्निभिडनिगडैर्लङ्घनं चुम्बनं च । एवं ज्ञात्वा विरम सुमते मा कुरु त्वं नियोगं कर्णोपान्ते मलिनवदना लेखिनी पूत्करोति ॥ ७९ ॥ For Private And Personal Use Only १४९

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183