Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 144
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ काव्यमाला। अङ्गीकृतः स भवता यदयं करीरः क्रूरोऽपि कल्पतरुगौरवमभ्युपैति ॥ २१९ ॥ वरं करीरो मरुमार्गवर्ती यः पान्थसाथै कुरुते कृतार्थम् । किं कल्पवृक्षैः कनकाचलस्थैः परोपकारव्रतलम्भदुःस्थैः ।। २२० ॥ अपरतरुनिकरमुक्तं मरुमण्डलमावसत्यसावेकः । फलकुसुमैरुपकुर्वन्नररि(?) करीरः कथं धीरः ॥ २२१ ॥ (इति करीरान्योक्तयः) अथ कण्टकस्य । रे कण्टकैर्निशितदुर्धरकोटिभागै मार्ग निपत्य किमुपार्जितमेभिरत्र । विद्धानि साधुजनपादतलानि तावदन्यन्निजस्य वदनस्य कृतश्च भङ्गः ॥ २२२ ॥ ___ अथ कन्धेर्या। नारङ्गिकुसुमकण्टो के इय कुसुमस्स कण्टओ जुत्तो । रसरहिय गन्धवज्जिय कन्थेरियकण्टओ कीस ॥ २२३ ॥ अथ बिल्वस्य। आमोदीनि सुमेदुराणि च मृदुखादूनि च क्ष्मारुहा. मुद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि । किंतु श्रीफलता तवैव जयिनी मालूर दिङ्मण्डले यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ॥२२४ ॥ ___ अथार्कस्य । अर्काः किं फलसंचयेन भवतां किं वः प्रसूनैर्नवैः - किं वा भूरिलताचयेन महता गोत्रेण किं भूयसा । येषामेकतमो बभूव स पुनःवास्ति कश्चित्कुले छायायामुपविश्य यस्य पथिकास्तृप्तिं फलैः कुर्वते ॥ २२५ ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183