Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 139
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥ १८२ ॥ मुखे द्वैरस्यं वपुरपि पुनर्प्रन्थिनिचितं न संतप्तः कोऽपि क्षणमपि भजेन्मूलमभितः । फलं चैवाप्राप्तं वितथसरलिम्नश्च भवत स्तदिक्षो नायुक्तं विहितमितरैर्यत्तु दलनम् ॥ १८३ ॥ ( इतीक्षोरन्योक्तयः ) अथ पीलो: । धन्याः सूक्ष्मफला अपि प्रियतमास्ते पीलुवृक्षाः क्षितौ क्षुत्क्षुण्णेन जनेन हि प्रतिदिनं येषां फलं भुज्यते । किं तैस्तत्र महाफलैरपि पुनः कल्पद्रुमाद्यैर्दुमै येषां नाम मनागपि श्रमनुदे छायापि न प्राप्यते ॥ १८४ ॥ अथ बदर्याः । परिमलगुणेन केतकि कण्टककूटानि वहसि तद्युक्तम् । गुणरहितबदर यत्त्वं वहसि परं तानि तत्किंनु ॥ १८५ ॥ अथ शाल्मल्यन्योक्तयः । १३१ For Private And Personal Use Only हंसाः पद्मवनाशया मधुलिहः सौरभ्यगन्धाशया पान्थाः खादुफलाशया बलिभुजो गृध्राश्च मांसाशया । दूरादुन्नतपुष्परागनिकरैर्निःसार मिथ्योन्नते रे रे शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥ १८६॥ कायः कण्टकभूषितो न च नवच्छायाकृतः पल्लवाः पुष्पाणि च्युतसौरभाणि न दलश्रेणी मनोहारिणी । किं ब्रूमः फलपाकमस्य यदुपन्यासेऽपि लज्जा महे तद्भोः केन गुणेन शाल्मलितरो जातोऽसि सीमद्रुमः ॥ १८७॥ विशालं शाल्मल्यां नयनसुभगं वीक्ष्य कुसुमं शुकानां श्रेणीभिः फलमपि भवेदस्य सदृशम् ।

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183