Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 118
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। कलयति किं न सदा फलतां बहुफलतां च स वृक्षः । यस्य परोपकृतौ कश्चिन्न सपक्षोऽपि विपक्षः ॥ २५ ॥ कुसुमं पुनरबहुफलं तरुजातेरिति रीतिः । कृशकुसुमे सति बहुफलता तरुवरनवनीतिः ॥ २६ ॥ शशविश्रामिणः सर्वे सन्ति सर्वत्र पादपाः । स एव विरलः शाखी यत्र विश्रमते करी ॥ २७ ॥ वने वने सन्ति वनेचराणां निवासयोग्यास्तरवोऽपि किं तैः । स पुण्यशाखी क्वचिदेक एव यस्याश्रयं वाञ्छति वारणेन्द्रः ॥२८॥ एणश्रेणिः शशकपरिषज्जम्बुकानां कुटुम्ब केकिव्यूहः श्रयति सहसा यत्र तत्रापि गुर्छ । कोऽसौ धन्यः कथय सुकृती पादपोऽभ्रंलिहश्री र्यस्य च्छायां श्रयति सहसा आतपातः करीन्द्रः ॥ २९ ॥ भीष्मग्रीष्मखरांशुतापमसमं वर्षाम्वुतापक्लमं भेदच्छेदमुखं कदर्थनमलं मादिभिर्निर्मितम् । सर्वग्रासिदवानलप्रसृमरज्वालोत्करालिङ्गनं हंहो वृक्ष सहख जैनमुनिवद्यत्त्वं क्षमैकाश्रयः ॥ ३० ॥ किं जातोऽसि चतुष्पथे घनतरं छन्नोऽसि किं छायया ___ छन्नश्चेत्फलितोऽसि किं फलभरैः पूर्णोऽसि किं संनतः । हे सदृक्ष सहख संप्रति सखे शाखाशिखाकर्षण क्षोभामोटनभञ्जनानि जनतः खैरेव दुश्चेष्टितैः ॥ ३१ ॥ आमोदैमरुतो मृगाः किसलयोल्लासैस्त्वचा तापसाः पुष्पैः षट्ररणाः फलैः शकुनयो घार्दिताश्छायया । स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्तत स्त्वं विश्वोपकृतिक्षमोऽसि भवता भमापदान्ये द्रुमाः ॥ ३२ ॥ कुर्वन्षट्दमण्डलस्य कुसुमामोदप्रदानोन्मुखं संप्रीणन्प्रसभं मनोहरफलखादार्पणादध्वगान् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183