________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
कलयति किं न सदा फलतां बहुफलतां च स वृक्षः । यस्य परोपकृतौ कश्चिन्न सपक्षोऽपि विपक्षः ॥ २५ ॥
कुसुमं पुनरबहुफलं तरुजातेरिति रीतिः । कृशकुसुमे सति बहुफलता तरुवरनवनीतिः ॥ २६ ॥ शशविश्रामिणः सर्वे सन्ति सर्वत्र पादपाः ।
स एव विरलः शाखी यत्र विश्रमते करी ॥ २७ ॥ वने वने सन्ति वनेचराणां निवासयोग्यास्तरवोऽपि किं तैः । स पुण्यशाखी क्वचिदेक एव यस्याश्रयं वाञ्छति वारणेन्द्रः ॥२८॥ एणश्रेणिः शशकपरिषज्जम्बुकानां कुटुम्ब
केकिव्यूहः श्रयति सहसा यत्र तत्रापि गुर्छ । कोऽसौ धन्यः कथय सुकृती पादपोऽभ्रंलिहश्री
र्यस्य च्छायां श्रयति सहसा आतपातः करीन्द्रः ॥ २९ ॥ भीष्मग्रीष्मखरांशुतापमसमं वर्षाम्वुतापक्लमं
भेदच्छेदमुखं कदर्थनमलं मादिभिर्निर्मितम् । सर्वग्रासिदवानलप्रसृमरज्वालोत्करालिङ्गनं
हंहो वृक्ष सहख जैनमुनिवद्यत्त्वं क्षमैकाश्रयः ॥ ३० ॥ किं जातोऽसि चतुष्पथे घनतरं छन्नोऽसि किं छायया ___ छन्नश्चेत्फलितोऽसि किं फलभरैः पूर्णोऽसि किं संनतः । हे सदृक्ष सहख संप्रति सखे शाखाशिखाकर्षण
क्षोभामोटनभञ्जनानि जनतः खैरेव दुश्चेष्टितैः ॥ ३१ ॥ आमोदैमरुतो मृगाः किसलयोल्लासैस्त्वचा तापसाः
पुष्पैः षट्ररणाः फलैः शकुनयो घार्दिताश्छायया । स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्तत
स्त्वं विश्वोपकृतिक्षमोऽसि भवता भमापदान्ये द्रुमाः ॥ ३२ ॥ कुर्वन्षट्दमण्डलस्य कुसुमामोदप्रदानोन्मुखं
संप्रीणन्प्रसभं मनोहरफलखादार्पणादध्वगान् ।
For Private And Personal Use Only