________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
छायां संततशीतलां विरचयंश्चण्डांशुतप्ताङ्गिनां सौजन्यं तरुराज भो प्रथय यत्ते रत्नगर्भा प्रसूः ॥ ३३ ॥ छायासुप्तमृगः शकुन्त निवधैर्विष्ठाविलिप्तच्छदः
कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः । विश्रब्धं मधुपैर्निपीतकुसुमः श्लाध्यः स एकस्तरुयत्राङ्गीकृतसत्त्वसंप्लवभरे भग्नापदोऽन्ये द्रुमाः ॥ ३४ ॥ गतास्ते विस्तीर्णस्तवकभरसौरभ्यलहरी
परीतव्योमानः प्रकृतिगुरवः केऽपि तरवः । start संप्रत्यह परिशिष्टाः क्रमवशा
दमी वल्मीकाद्या भुजगकुललीलावसतयः ॥ ३५ ॥ हो पान्थ किमाकुलः श्रमवशादत्युन्नतं धावसि प्रायेणास्य महाद्रुमस्य भवता वार्तापि नाकर्णिता । मूलं सिंहसमाकुलं तु शिखरं प्रोद्दण्डतुण्डाः खगा
मध्ये कोटरभाजि भीषणफणाः फूत्कुर्वते पन्नगाः || ३६ ॥ शाखाभिर्विततीभविष्यति दलैस्तेजांसि तिग्मधुते
रन्तर्धास्यति यास्यतीह मधुपश्रेणी रसं कौसुमम् । अध्वन्यान्सुखिनः करिष्यति फलैर्यत्रेयमाशाभव
त्सोऽयं मार्गतरुर्हहा विधिवशादग्धो दवार्चिष्मता ॥ ३७ ॥ तीव्र निदाघसमय बहुपथिकजनश्च मारवः पन्थाः । मार्गस्थस्तरुरेकः कियतां संतापमपनयति ॥ ३८ ॥
मार्ग विहाय गिरिकन्दरगह्वरेषु
वृक्षाः फलन्ति यदि नाम फलन्तु किं तैः । शाखामजानि कुसुमानि फलानि मार्गे
गृह्णन्ति यस्य पथिकास्तरुरेष धन्यः ॥ ३९ ॥ आयान्ति त्वरितं गभीरसरितां कुलेषु भूमीरुहा मूलेषु व्यथिता निदाघपथिकाः कृत्यं तदेषां परम् ।
For Private And Personal Use Only
१११