SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। १०९ मालत्युक्तिर्वालकोक्तिः केतक्युक्तिर्बुधैर्मता । पनसोक्तिः कदल्युक्तिाक्षोक्तिर्दाडिमोक्तयः ॥ १२ ॥ नारिकेल्युक्तयश्चापि तालवृक्षोक्तयस्ततः । भूर्जद्रुमोक्तयो ज्ञेयाश्वत्थ(?)वृक्षोक्तयस्तथा ॥ १३ ॥ न्यग्रोधान्योक्तयस्तद्वन्मधूकान्योक्तयः पुनः । इक्ष्वन्योक्तिश्च पीलूक्तिबंदर्यन्योक्तयोऽपि च ॥ १४ ॥ शाल्मल्यन्योक्तयश्चैवं निम्बभूमीरुहोक्तयः । खदिरान्योक्तयः ख्याता वंशजात्युक्तयस्तथा ॥ १५ ॥ किंशुकान्योक्तयस्तद्वत्पलाशकुसुमोक्तयः । बब्बूलान्योक्तयो ज्ञेयाः शाखोटान्योक्तयः स्फुटाः ॥ १६ ॥ चिश्चिण्युक्तिः करीरोक्तिः कण्टकोक्तिस्ततः परम् । कन्थेयुक्तिश्च बिल्वोक्तिरर्कक्षोणीरुहोक्तयः ॥ १७ ॥ जवासोक्तिर्यवस्योक्तिः शाल्युक्तिश्च तिलोक्तयः । ततो विशिष्टमञ्जिष्ठान्योक्तयो विजयोक्तयः ॥ १८ ॥ दक्षलक्षप्रियतमा तमाकूक्तिः प्रकीर्तिता । लशुनोक्तिर्बादरोक्तिः फेनिलान्योक्तयः पराः ॥ १९ ॥ कण्टारिकाया अन्योक्तिः सणान्योक्तिरुदाहृता । धत्तूरपादपान्योक्तिरवधेया तृणोक्तयः ॥ २० ॥ नागवल्लीदलान्योक्तिस्तुम्बिवल्युक्तयः पुनः । कारल्यन्योक्तयो ज्ञेयाः कोहलिन्युक्तयो वराः ॥ २१ ॥ अथ वनस्पतिकायाधिकारपद्धतौ प्रथमं सामान्यवृक्षान्योक्तयः ॥ छायामन्यस्य कुर्वन्ति स्वयं तिष्ठन्ति चातपे । फलन्ति च परार्थे च नात्महेतोर्महाद्रुमाः ॥ २२ ॥ वर्त्मनि वर्त्मनि तरवः पथि पथिकजनैरुपास्यते छाया । स च नैव चिरं विटपी यं गृहमाप्तोऽध्वगः स्मरति ॥ २३ ॥ शाखाशतचितवृतयः सन्ति कियन्तो न कानने तरवः । परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः ॥ २४ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy