________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achie
१०८
काव्यमाला।
सप्तमः परिच्छेदः। परज्योतिःखरूपाय पराय परमात्मने । नमः श्रीपार्श्वनाथाय श्रेयःश्रेणीविधायिने ॥ १॥ कारुण्यपुण्यसत्सद्म कुरु त्वं जनबान्धव । मम श्रीपार्श्वतीर्थेश सुप्रसादं सुखास्पदम् ॥ २॥ भजध्वमेनं भो भव्याः श्रीकामाय जिनेश्वरम् । रम्यदं तं सुखागारं मनोभवभवप्रभम् ॥ ३ ।। भववारांनिधौ कुम्भभवं बोधितसत्सभम् । भगवन्तं जराजन्मरोगहं चित्तजं हरम् ॥ ४ ॥
___ द्वाभ्यां खड्गबन्धचित्रम् । श्रमणप्रकरैर्वन्ध सद्यस्तव पदौ मम । महानन्दपदं दत्तां त्रैशलेययशोधर ॥ ५ ॥
हलबन्धचित्रम् । धन्यास्त एव देवाथै ये त्रिसंध्यं पदद्वयम् । आराधयन्ति विधिवज्जन्मभाजोऽनिशं तव ॥ ६ ॥ सज्ज्ञानमञ्जुमाणिक्यवररोहणभूधरम् । वन्दामहे विश्ववन्धं साधुश्रीवन्तनन्दनम् ॥ ७ ॥
अथ प्रतिद्वारवृत्तानि । सांप्रतं सुखबोधाय परिच्छेदे च सप्तमे । चित्रानुप्रासयमकगुणालंकारभासुरे ॥ ८ ॥ विचक्षणजनश्रेणीहर्षोत्कर्षकृते मया। सरलानुक्रमणिका प्रतिद्वारस्य प्रोच्यते ॥ ९ ॥ (युग्मम्) सामान्यपादपान्योक्तिरशोकतरुपद्धतिः । चन्दनोक्तिश्चम्पकोक्तिर्माकन्दोक्तिर्मनोरमा ॥ १० ॥ काकतुण्डोक्तिरपरा मल्लिकोक्तिरनोपमा(!)। पाटलोक्तिश्च पद्मोक्तिः पद्मिन्युक्तिः स्फुटाः स्मृताः ॥ ११ ॥
For Private And Personal Use Only