________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। दद साधोऽजरामाजरामाभी रहितोऽमल । रम तो हितकृत्सार रसास्पृहृदयेऽपर ॥ १७ ॥
शङ्खः ॥ १४ ॥ दह पापं विशां ध्येय नित्यं मुमुक्षुरादुर । ललन्कंकलरम्भाद दभारं शंकरः सक ॥ १८ ॥
त्रिशूलम् ॥ १५॥ ददं भन्दवदं सकृद्गुरुं भजत मामकम् । कल्पकल्पं कर्मकर्ष कजकमकरं कमम् ॥ १९ ॥
चामरम् ॥ १६ ॥
छत्रम् ॥ १३ ॥ हे साधो, त्वं रसास्पृशां नृणां हृदयं रसास्पृग्घृदयं तस्मिन् रम इति संबन्धः । हे दद ददातीति ददस्तत्संबोधनम् । हे अजर न विद्यते जरा यस्य तत्संबोधनम् । हे अमाज न विद्यते माजः कन्दो यस्य तत्संबोधनम् । कीदृशस्त्वम् । रामाभिः स्त्रीभिः रहितः, यद्वा त्वं कीदृशः । जरामाजरामाभीरहित: जरा च माजश्व रामाश्च ताभिः । परवलिङ्गम् । हे अमल न विद्यते मल: कर्मरूपो यस्य तत्सं. बोधनम् । पुनः कीदृशस्त्वम् । तः सुवेषः । 'तः सुवेषो मता नारी' इत्येकाक्षरानेका. र्थनामकोशे । पुनः कीदृशस्त्वम् । हितं करोतीति हितकृत्, हे सार हे श्रेष्ठ, हे अपर न विद्यते पराः शत्रवो रागद्वेषादयो यस्य तत्संबोधनम् ॥ १७ ॥ शङ्कः॥ १४॥ हे मुमुक्षुरादुर मुमुक्षुराज्ञां मध्ये वर श्रेष्ठ, हे ध्येय ध्यातुमर्ह, वं विशा पापं दह । कथम् । नित्यम् । हे ललन्कंकलरम्भाद ललतीति ललन् तच्च तत्कं च ललन्कं तदेव कलरम्भा मनोज्ञकदली तां ददातीति तत्संबोधनम् । अरं अत्यर्थ दभ दं दानं तेन भातीति दभस्तत्संबोधनं हे शंकर, हे सक सह केन सुखेन वर्तत इति सकस्तत्संबोधनम् ॥ १८॥ त्रिशूलम् ॥ १५॥ भो जनाः, यूयं सकृदपि अपीति गम्यम् । आस्तामनेकवारं एकवारमपि ममेदं मामकं गुरुं हिताहितोपदेशकं भजत सेवत । कीदृशम् । ददातीति ददस्तम् । 'ददातिदधात्योर्विभाषा' इति शस्तम् । पुनः कीदृशम् । भन्दं कल्याण वदतीति भन्दवदस्तम् । 'भन्दं कल्याणे सौख्ये च' इति हैमानेकार्थकोशः । पुनः कीदृशम् । कल्पकल्पं कल्पो देवभूरुहस्तत्सदृशः कल्पकल्पस्तम् । 'ईपदपरिसमाप्तौ कल्पदेश्यदेशीयरः' । पुनः कीदृशम्। कर्माणि कषति हिनस्तीति कर्मकषस्तम् । पुनः कीदृशम् । कजकम्रकर कजं पद्मं तद्वत्कम्रो कमनीयौ करौ हस्तौ यस्य तम् । पुनः कीदृशम् । कम कं सुखं मयते प्रतिददातीति । मेङ् प्रणिदाने' इति वचनात् । यद्वा कस्य
For Private And Personal Use Only